________________
द्वितीयं परीषहाध्ययनम्
राजर्षिरपि भूपीठं पुनानः स्वविहारतः । नगर्याः स्यन्दनस्थल्या निकटे समवासरत् ॥२०४॥ जगामेतश्च सीतेन्द्रोऽवधेर्विज्ञाय लक्ष्मणम् । स्थितं पङ्कप्रभामह्यां तमाक्रष्टुं धुशर्मणे ।।२०५।। प्रशमय्य कृतक्रोधौ मिथो रावण-लक्ष्मणौ । कर्मणो दुर्विपाकाभिव्यञ्जकैर्वचनैरथ ॥२०६।। तीव्रपीडामयात् श्वभ्रादाचकर्ष कृतोद्यमः । क्रियासमभिहारेण तौ गलित्वैव जग्मतुः ॥२०७॥ सहमानौ तदधिकं तदा दुःखमथोचतुः । मा कुरुष्व वृथा यत्नं देवः कर्मणि न क्षमः ॥२०८।। तत् किञ्चित् कथयावाभ्यां न यथा पुनरागमः । नरके स्यादिति प्रोक्ते प्रादात् सम्यक्त्वमेतयोः ॥२०९।। उवाच न कृतो धर्मो युवाभ्यां विषयादरात । इदं तत्फलमाढौकि किमथो परिदेवनैः ? ॥२१०।। बान्धवाभ्यामिव स्थेयमतः परममत्सरम् । दाढ्यं च दर्शने कार्यमित्याख्याय ततोऽचलत् ॥२११।। आययौ चोपराजर्षि शुश्रावेति च देशनाम् । रागी भ्रमति संसारे वीतरागो विमुच्यते ॥२१२॥ आलम्बनं विना वार्यिथा न खलु तीर्यते । निःशीलैर्विषयासक्तैस्तथा संसारसागरः ॥२१३॥ तपोनियमबन्धेन सुदृष्टिज्ञानदारुणा । भवाब्धेस्तरणं नृणां धर्मपोतेन निश्चितम् ॥२१४॥ अत्यक्तविषयाभोगौ पश्य रावण-लक्ष्मणौ । श्वभ्रेष्वदभ्रपीडास्ता विषहातेतमामहो ! ॥२१५॥ सीतेन्द्रः प्रोचिवान् नत्वा सर्वं दृष्टमदो मया । प्रसद्योदर्कमाख्याहि मुने ! मम तयोस्तथा ।।२१६।। मुनिराख्यद् विदेहेषु पुर्यस्ति विजयावती । सुनन्दस्तत्र भूपोऽस्य रोहिणी दयिताऽद्भुता ॥२१७।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org