________________
उत्तरज्झयणाणि-१ ववर्षानिर्जराः पुष्प-रत्न-गन्धोद-काञ्चनम् । अस्तुवन् नृप-राजर्षी ननृतुश्च द्युयोषितः ॥१६२॥ सुरैः कृतां निरीक्ष्यार्चा प्रतिबुद्धः पुरीश्वरः । अणुव्रतपवित्रात्मा श्रमणोपासकोऽभवत् ॥१६३।। तप्यमानोऽतितीव्राणि तपांसि वनवासिभिः । महितो देव-यक्षाद्यैः सोऽभवल्लब्धसेवधिः ॥१६४॥ ध्यानाभ्यासैकनिष्णातो मुनिराजः क्रमादगात् । ख्यातां कोटिशिलां यामुद्दधार प्राग् जनार्दनः ॥१६५।। तामारुह्य विभावर्यां योगलीनस्तपोधनः । धीरः प्रतिमया तस्थौ कर्मध्वंसैकबद्धधीः ॥१६६।। इतश्च द्वादशे कल्पे शक्रो व्यापारितावधिः । तादृशं मुनिमद्राक्षीत् प्रेमो षितकण्टकः ॥१६७॥ तपसः किं न माहात्म्यं जैनस्येति व्यमर्शयत् । ममानुचीर्णं सीतात्वे यतोऽभूत् स्वर्गदं तपः ॥१६८।। विस्मितस्तं मुनि वेद बलभद्रं जहर्ष च । अयं हि मम सीतात्वे कान्तोऽभूद् मानुजे भवे ॥१६९॥ अहो ! आश्चर्यमाश्चर्यं विचित्रा कर्मणां गतिः । परित्यज्याङनावेदं पुंवेदं लभते जनः ॥१७०॥ अन्तेऽप्यत्यक्तविषयो लक्ष्मणोऽगादधोगतिम् । रामचन्द्रस्तु संविग्नो मोक्षायैष तपस्यति ।।१७१।। क्षपकश्रेणिमारूढो न यावज्ज्ञानमश्नुते । तावद् गत्वा क्षोभयामि देवः स्याद् मे यथा सुहृत् ।।१७२॥ क्रीडिष्यामि हि तद्युक्तो मेरु-नन्दीश्वरादिषु । सुखेषु हि महासौख्यं हृदयङ्गमसङ्गमः ॥१७३।। स चाहं चानयिष्यावो लक्ष्मणं नरकोदरात् । सम्बन्धिनि गते क्लेशं सुखिनोऽपि सुखं कुतः ? ॥१७४|| अच्युतेन्द्र इति ध्यात्वाऽवतीर्णो लघु काश्यपीम् । यत्रास्ति रामचन्द्रर्षिस्तत्र प्रावर्तयन्मधुम् ॥१७५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org