SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ७७ द्वितीयं परीषहाध्ययनम् गत्वा निमन्त्र्य श्रीराममत्रानयत भोः ! द्रुतम् । तस्मै भिक्षां प्रदायाशु प्रचितं पुण्यमय॑ते ॥१४८॥ राजाज्ञया ययुस्तेऽपि भिक्षादानार्थमागतान् । उत्सार्य परितो लोकान् मुनिराजं न्यमन्त्रयन् ॥१४९।। सोऽपि दध्यौ जना एते वर्धमानमुदोऽखिलाः । तिष्ठन्त्यतीव सोत्साहा मद्दानोज्ज्वलचेतसः ॥१५०॥ इदानीं यद्यहं यामि नृपसौधे निमन्त्रितः ।। तदा विघटितोत्साहा गच्छन्त्येते विषादिताम् ॥१५१।। नृपभावमतिक्रम्यादेयं दानं न चान्यतः । इति निश्चित्य निःसङ्गो निर्गत्य प्रययौ वनम् ॥१५२।। तत्राददे द्वितीयेऽह्नि रामो घोरमभिग्रहम् । भिक्षाऽर्थं न पुरे याता यदाऽत्र स्यात् तदाऽस्तु सा ॥१५३।। क्षणं विषादमाधाय प्रतिनन्दी च नागराः । समादधुरिति स्वान्तं निःसङ्गा हि मुनीश्वराः ॥१५४॥ इतो हयपरीक्षायै प्रतिनन्दी धराधिपः । अवाहयत् तमारुह्य परीतः सर्वसेनया ॥१५५।। वक्रशिक्षितदुष्टाश्वहतो राजा विवेश तत् । पश्यत्येव परीवारे काननं रामभूषितम् ॥१५६।। व्रजन् वेगेन तुरगः क्वचित् सरसि कर्दमे । तथा मग्नो न निर्गन्तुं शशाक स नृपो यथा ॥१५७।। स्कन्धावारः क्रमादागादनुलग्नो नरेशितुः । निरगात् तत्प्रयोगेण नृपोऽप्यावासितस्तटे ॥१५८॥ नृपतिः सरसि स्नात्वा बुभुक्षुर्भोजनक्षणे । यावदास्ते समासीनः कुर्वन् दिगवलोकनम् ॥१५९।। तावद् विवेश रामर्षिः पारणार्थी वरूथिनीम् । अभ्युदस्थाद् धराधीशो ज्ञातव्यतिकरो जनात् ।।१६०॥ क्षीरादिप्रवराहारं भावाद् दातुमुपाक्रमत् । दातुः श्रद्धादिसामग्र्याद् मुनिः प्रत्यग्रहीच्च तम् ॥१६१।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy