________________
७१
द्वितीयं परीषहाध्ययनम्
धर्मादन्यत्र विश्वेऽपि मृत्यवे कोऽपि न प्रभुः । निरर्थकस्तु धीराणां शोकः कातर्यलक्षणम् ॥१४॥ कथंकथमपि प्राप्ते मानुषत्वेऽतिदुर्लभे । गलदायुर्न वेत्त्येवं प्रेम्णा निगडितो जनः ॥६५॥ जनन्यकस्थितोऽप्येष रक्षितोऽपि शितायुधैः । कृतान्तशत्रुणाऽवश्यं हठादादीयते जनः ॥६६॥ भवं भवमनु प्राप्ताः स्वजना ये शरीरिणा । अधिकास्तेऽब्धिबिन्दुभ्यस्तत् को मोहोऽत्र राघव ! ॥१७॥ विपक्षः स्वजनो भूयात् स्वजनोऽपि परो भवेत् । स्वजने तद् गते कालं न कुर्युः सधियः शुचम् ॥६८॥ राम ! ते रामनामापि शुचं हन्ति स्मृतं हृदि ।। त्वं चेत् प्रभो ! शुचाऽऽक्रान्तस्तत् तवापि किमुच्यते ? ॥६९॥ अथ नत्वाऽऽशु विज्ञप्तः सुग्रीवाद्यैः स राघवः । लक्ष्मणाङ्गमथ त्यक्त्वा मोहं संस्कारयानले ॥७०।। प्रत्युद्यातमहामोहस्तगिराऽथ रघूद्वहः । अधिचिक्षेप तानित्थं यात यात ममाग्रतः ॥७१॥ उत्तिष्ठानुज ! यास्यामस्तं प्रदेशं निराकुलम् । यत्रैषां दुर्जनानां गीः श्रूयते न श्रवोविषम् ॥७२॥ इत्याख्याय सभां मुक्त्वा स्कन्धे कृत्वाऽऽनुजं वपुः । गत्वाऽन्यत्र सूपकारैः सज्जयित्वौदनादिकम् ॥७३॥ लक्ष्मणास्ये प्रचिक्षेप वत्स ! लाहीत्यदोऽवदत् । मृतः स तु न जग्राह जैन धर्ममभव्यवत् ॥७४।। अथ चारुवयो-विद्युन्मालि-रत्नेक्षणादयः । अरयो रामभद्रस्य वृत्तान्तमिति शुश्रुवुः ॥७५॥ येन सुग्रीवसान्निध्यादुल्लङ्घय लवणोदधिम् । सीताऽपहारे चक्रेण चिच्छिदे रावणं शिरः ॥७६।। इदानीं प्रहतः सोऽयं कालचक्रेण लक्ष्मणः । वशीकृतस्तु मोहेन वियोगे तस्य राघवः ॥७७||
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org