SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ७० तपोवने तपस्यार्थं भ्रातृजौ तव गच्छतः । उत्तिष्ठोत्तिष्ठ तौ वत्स ! सान्त्वयित्वा समानय ॥५०॥ न तथा भास्करो ग्रीष्मे तथा दहति नानलः । कोदरवियोगो मां यथा तुदति सर्वतः ॥ ५१ ॥ वत्स ! सूर्योऽस्तमायातो यदि ब्रूषे त्वमेकशः । तदा समाधिना निद्रां भजे रात्रावनाकुलः ॥५२॥ वत्स ! त्यज विषादं द्राक् त्वय्येवं सति खेचराः । विरुद्धाः कोशलां लातुं प्राप्ता एव समन्ततः ॥५३॥ निद्रां मुञ्च निशाऽतीतोदियाय रविरुद्भुतम् । दत्ताः कपाटा मच्चित्ते परत्रोद्घटिताश्च ते ॥५४॥ नूनं कृतो मया मित्रवियोग: केनचित् पुरा । वाग्वियोगः कथं बन्धोरन्यथा लभ्यते मया ? ॥५५॥ इति प्रलपतस्तस्य श्रीरामस्य नभश्चराः । बिभीषणादयः सर्वे सुहृदो ऽन्तिकमागताः || ५६ || नवभि: कुलम् साश्रुनेत्रा बलस्यैते पतित्वा पादयोस्तदा । प्रस्तावोचितमाचख्युरस्य शोकापनोदकृत् ॥५७॥ विशेषतो बभाषेऽत्र निपुणस्तु बिभीषणः । राम ! रावणं कृत्वा किमिदानीं मुधा शुचः ? ॥५८॥ जलबुद्धदतुल्यानि शरीराणि भवे भवे । उत्पद्यन्ते विलीयन्ते हर्षेणालं शुचाऽप्यलम् ॥५९॥ सलोकपालदेवेन्द्रा भुञ्जन्तो दिवि सम्पदः । पुण्यक्षयाच्च्युतास्तेऽपि लभन्ते पुनरापदः ॥६०॥ मृतं शोचति संमूढो महामोहवशंवदः । नात्मानं तु सदा मृत्युपञ्चाननमुखस्थितम् ॥ ६१ ॥ यत्प्रभृत्येव सञ्जातस्तत्प्रभृत्येव मृत्युना । जीवो गृहीत एवास्ते जनस्तदपि सुस्थिरः ॥६२॥ तिलमात्रमपि स्थानं न तज्जगति वर्तते । उत्पत्तिं मरणं चैव न यस्मिन् जन्तुरासदत् ॥६३॥ For Private & Personal Use Only उत्तरज्झयणाणि - १ Jain Education International 2010_02 www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy