________________
द्वितीयं परीषहाध्ययनम्
गतजीवमपि ज्ञात्वा चिह्नर्जीवन्तमेव सः । विवेद प्रणयो ज्ञानवैपरीत्ये हि कारणम् ॥३६।। न ब्रूते हसते नैव नवोच्छ्वसिति बान्धवः । अदीनोऽप्यभजद् दैन्यं ततो रामोऽतिमोहितः ॥३७।। आकार्य महतो वैद्यान् सौमित्रिमचिकित्सयत् । प्रतीकारेऽखिले व्यर्थीभूते मूर्छामवाप च ॥३८।। कथञ्चिल्लब्धचैतन्ये रामे शोचति निर्भरम् । अनुशोचति विश्वेऽपि शोकाद्वैतं तदाऽभवत् ॥३९॥ युवतिभिस्तदा हार-कङ्कणाद्यमभज्यत । यथा राजाङ्गणास्थानं सर्वमाच्छाद्यतामुना ॥४०॥ अत्रान्तरे रामसुतौ तदैव लवणाङ्कशौ । लक्ष्मणं मृतमाकर्ण्य वैराग्यादिति दध्यतुः ॥४१॥ ससुरासुरलोकेन जेतुं शक्यो न लक्ष्मणः । कृतान्तेन हतः सोऽपि क्षणेनैव दुरात्मना ॥४२॥ कदलीमध्यवत् सारत्यक्तेन तनुनाऽमुना । नात्तं तपःफलं येन पश्चात् तपति सोऽन्वहम् ॥४३।। इत्यभिप्रेत्य पितरं नत्वा त्यक्त्वाऽऽशु सम्पदः । वने सुधास्वरगुरोः पार्वे साधू बभूवतुः ॥४४॥ ज्ञान-दर्शन-चारित्रत्रयलीनौ महाशयौ । कुलानुरूपं कुर्वन्तावभूतां प्रथितौ जने ॥४५।। श्रीरामस्य प्रियौ पुत्रौ ताभ्यामप्यनुजः प्रियः । तद्वियुक्तः स यद् भेजे दुःखं वेद स एव तत् ॥४६।। त्यक्तराज्यसुखाभोगः कोमलं सुरभि स्वतः । नात्यजल्लाक्ष्मणं देहं रामः स्नेहविचेतनः ॥४७॥ त्वया सहोदरेणाहं कदाऽप्यकृतसङ्कथः । त्वमेव ब्रूहि यद्यस्थां मुहूर्तमपि बान्धव ! ॥४८|| वेला ते महत जाता निरुद्धवचसो मयि । त्वदेकप्राणमेतत् कि प्रियावृन्दमुपेक्ष्यसे ? ॥४९॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org