________________
उत्तरज्झयणाणि-१ अथ द्वौ रत्नचूलाख्य-मृगचूलाभिधौ सुरौ । गतौ स्नेहपरीक्षार्थं राम-लक्ष्मणयोर्भुवम् ॥२२॥ रामं विष्णुर्मूतं श्रुत्वा शुचा कीदृग् विचेष्टते । प्रविष्टावित्ययोध्यायामलक्षौ राजवेश्मनि ॥२३॥ माययोच्छालितः शब्दो रामोऽकस्माद् मृति गतः । नारीशोकप्रलापाश्च जिज्ञरेऽनुदिशं ततः ॥२४॥ लक्ष्मणोऽपि तदाकाकाण्डे ही ! किमभूदिदम् ? । इति दीनं ब्रुवन्नेव सद्यः प्राणैर्व्यमुच्यत ॥२५।। काञ्चनप्रतिमाऽऽकारश्चेष्टालवविवर्जितः । अलक्ष्यत दिवौकोभ्यां तदा श्रीराघवानुजः ॥२६|| किमेतदिति सम्भ्रान्तौ मृतं ज्ञात्वाऽथ लक्ष्मणम् । तौ निनिन्दतुरात्मानं महापुरुषघातकम् ॥२७॥ हास्येनापि हि तत् कुर्याद् निन्दितं कर्म दुर्जनः । आत्मानमपरांश्चैव पीडयेद् येन लीलया ॥२८॥ असमीक्षितकर्तृणां पश्चात्तापहतौजसाम् । स्वयमेव कृतं कर्म परीतापप्रदं भवेत् ॥२९॥ विषादपावकोत्तप्तौ प्राणितं दातुमक्षमौ । इति चिन्तापरौ देवौ पापात्मानौ दिवं गतौ ॥३०॥ लक्ष्मणं निश्चितं ज्ञात्वा मृतमन्तःपुरीजनः । तथाऽरोदीद् यथा क्षिप्रं रोदसीमप्यरोदयत् ।।३१।। मुग्धाः काश्चन पद्माक्ष्यः स्नेहाभ्यासात् पुरातनात् । आलिलिङ्गनिजं कान्तां सान्त्वयन्त्यो निरर्थकम् ॥३२॥ स्वसेवकमुखाच्छ्रुत्वा रामोऽप्येतत् ससम्भ्रमः उपलक्ष्मणमायातोऽनुजं तादृशमैक्षत ॥३३।। लक्ष्मणं विगतालापं निष्प्रभं प्रातरिन्दुवत् । दध्यौ दाशरथिर्वीक्ष्य किं रुष्टो मयि मेऽनुजः ? ॥३४॥ गत्वा मस्तकमाघ्रायालिङ्ग्यानुजमसौ ततः । न ददासि किमालापमित्यभाणीत् सगद्गदम् ॥३५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org