SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ६७ द्वितीयं परीषहाध्ययनम् चक्रित्वमथ देवत्वमिन्द्रत्वं सिद्धिसम्पदः । यत्प्रसादादवाप्यन्तेऽर्हन्तमेव तमानुमः ॥८|| कन्दर्पोर्मिभराक्रान्तं कषायग्राहसङ्कलम् ।। भवाम्भोधि जिनादन्यः कस्तारयितुमीश्वरः ? ॥९॥ मोहाभ्रपटलैश्छन्नमज्ञानध्वान्तसञ्चितम् । जिनो भास्कर एवायं विश्वं विश्वं प्रकाशयेत् ॥१०॥ यदीच्छत परं सौख्यं स्वर्गानन्तगुणं सुराः ! । तदाऽऽराधयतार्हन्तमार्हन्त्यपददायकम् ॥११॥ जीवो ह्यसावनाद्यन्तो भ्रमन् स्वादृष्टवायुना । कथञ्चित् प्राप्य मानुष्यं नार्हद्धर्मे स्थिरो भवेत् ॥१२।। मिथ्यादृष्टि क्रियां कृत्वा यद्यप्यात्मा सुरो भवेत् । च्युतस्तथाऽप्यसौ स्वर्गाद् न मोक्षपथमाप्नुयात् ।।१३।। विश्वपूज्याय जैनाय यो धर्माय जुगुप्सते । स दुःखसागरे घोरे तं तं कालमरायते ॥१४॥ ही ! सर्वं सुलभं लोके बोधिरेकैव दुर्लभा । अर्हत्प्रसादाद् मे भूयात् प्रेत्य बोधिः परेण किम् ?" ॥१५॥ तत्रैको विबुधः प्रोचे दुर्लभा चेद् भवादृशाम् । सुलभास्मादृशां बोधिनूनं प्रेत्य कथं भवेत् ? ॥१६।। महद्धिकं सुरं रामीभूतं ब्रह्मदिवश्च्युतम् । इदानीमेव किं मुग्धं भोगमूढं न पश्यत ? ॥१७॥ इन्द्रोऽभ्यधात् समस्तेषु बन्धनेषु पुरातनैः । स्नेहबन्धनमाख्यातं परमं बन्धनं भवे ॥१८॥ नरो निगडबद्धोऽपि यायात् पदमभिप्सितम् । प्रेमबन्धनबद्धस्तु पदं गन्तुं न हि क्षमः ॥१९॥ राम-लक्ष्मणयोः स्नेहः कश्चिदेवंविधः सुराः ! । वियोगेऽन्यतरस्यान्यो निश्चितं मृत्युमाप्नुयात् ॥२०॥ रामो न लक्ष्मणं मोक्तुं भवेत् क्षणमपि क्षमः । केवलं तिष्ठति व्याप्तो मोहनीयेन कर्मणा ॥२१॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy