SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ५४ संमतितर्कप्रकरणे, काण्ड-१, गाथा-३२ अविकल्पत्वनिबन्धनं व्यञ्जनपर्यायं सविकल्पत्वनिबन्धनं चार्थपर्यायं पुरुषदृष्टा न्तद्वारेणाह - पुरिसम्मि पुरिससद्दो जम्माई मरणकालपज्जन्तो । तस्स उ बालाईया पज्जवजोया बहुवियप्पा ।। ३२ ।। अतीतानागतवर्त्तमानानन्तार्थ- व्यञ्जनपर्यायात्मके पुरुषे पुरुषवस्तुनि जन्मादिर्मरणकालपर्यन्तः पुरुषशब्दः 'पुरुषः' इति शब्दो व्यञ्जनपर्यायोऽभेदताद्योतकः । तस्यैव पुरुषस्य बालादिकाः पर्यवयोगाः तत्तत्परिणतिसम्बन्धा अर्थपर्याया बहुविकल्पा अनेकभेदाः । इदं समीक्ष्यम् - पुरुषरूपजीवो जन्मादिर्मरणपर्यन्तः 'अयं पुरुषः अयं पुरुषः' इति एकशब्देन व्यवह्रियते, समानप्रतीतिविषयष्टा भवति । ततस्तज्जीवस्य पुरुषरूपः सदृशपर्यायप्रवाहो व्यञ्जनपर्याय उच्यते । तस्मिन् पुरुषरूपे व्यञ्जनपर्याये बाल-कुमार-यौवन-प्रौढ-वृद्धादयोऽनेकप्रकाराः स्थूलपर्यायाः, तत्रापि बालादिस्थूलपर्याये नवजात - स्तनन्धयादयोऽनेकाः सूक्ष्मपर्यायाः, तत्रापि प्रतिसमयविवक्षया अनन्ताः सूक्ष्मपर्याया भासन्ते । ते सर्वे पुरुषात्मकव्यञ्जनपर्यायस्य अर्थपर्याया उच्यन्ते । एवं एकपुरुषपर्याये व्यञ्जनपर्यायेण 'स्याद् एकः' इति निर्विकल्पज्ञानं तथाऽर्थपर्यायैः ‘स्याद् अनेक’ इति सविकल्पज्ञानम् सिद्धम्, अर्थाज्जीवः पुरुषरूपव्यञ्जनपर्यायेण एकस्तथा बालाद्यर्थपर्यायेण अनेकः कथ्यते ।। ३२ ।। અવ. વસ્તુનું અનેકાંતસ્વરૂપ પ્રતિપાદન કરનારા વાકયો પણ અનેકાંતસ્વરૂપ છે તેનું વર્ણન અથવા અવિકલ્પત્વના કારણસ્વરૂપ વ્યંજનપર્યાય તથા સવિકલ્પત્વના કારણસ્વરૂપ અર્થપર્યાયનું દૃષ્ટાંત વડે वएर्शन - गाथा : छाया : Jain Education International 2010_02 पुरिसम्म पुरिससद्दो जम्माई मरणकालपज्जन्तो । तस्स उबालाईया पज्जवजोया बहुवियप्पा ।। ३२ ।। पुरुषे पुरुषशब्दो जन्मादिर्मरणकालपर्यन्तः । तस्य तु बालादिकाः पर्यवयोगा बहुविकल्पाः ।। ३२ ।। For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy