________________
संमतितर्कप्रकरणे, काण्ड - १, गाथा - ३०
नियतष्टार्थनयनिबन्धनष्टा । तत्र अर्थगतस्तु विभागोऽभिन्न उत्तरभेदरहितः, व्यञ्जनविकल्पः शब्दगतविभागस्तु भाज्यो भिन्नाभिन्नः ।
५०
अयं वाच्यः - अर्थं गौणीकृत्य शब्दप्रधाना नयाः शब्दनयाः शब्द-समभिरूढ-एवम्भूताख्याः, तथा शब्दोपसर्जनतयाऽर्थप्रधाना नया अर्थनयाः सङ्ग्रह - व्यवहार - ऋजुसूत्राख्याः । पर्यायार्थिकनयविषयविशेषात्मकभेदोऽपि द्विभेदः- शब्दनयनिबन्धनोऽर्थनयनिबन्धनष्टा । तस्मिन्नर्थनयकृतविभागोऽभिन्नः, सङ्ग्रहनयविषयस्यासद्व्यवच्छिन्नाभिन्नार्थपर्यायरूपत्वात्, व्यवहारनयविषयस्य अद्रव्यव्यवच्छिन्नाभिन्नार्थपर्यायरूपत्वात्, ऋजुसूत्रनयस्य चातीतानागतव्यवच्छिन्नाभिन्नार्थपर्यायरूपत्वात् । तस्मादर्थनयविषयोऽर्थपर्याय एकविधः, न तत्र उत्तरभेदाः संभवन्ति ।
शब्दनयकृतविभागस्तु भिन्नाभिन्नः । शब्दनयानुसारेण एकस्यार्थस्यानेकशब्दा वाचका इत्यतो भिन्नः, समभिरूढनयानुसारेण एकस्य चार्थस्यैकशब्दो वाचक इत्यतोऽभिन्नस्तथैवम्भूतनयानुसारेण विवक्षितक्रियाकाल एव एकस्यार्थस्यैक एव शब्दो वाचकः, तस्मादभिन्नः । इत्येवं व्यञ्जनपर्यायो भिन्नाऽभिन्न इत्यर्थः ।
संक्षेपतोऽर्थपर्यायस्य भेदपरम्परायामन्तिमत्वात् स्वीयभेदानामभावाच्चाभिन्नस्तथा व्यञ्जनपर्यायस्य सदृशप्रवाहदृष्ट्या एकत्वेनाभिन्नत्वेऽपि स्वीयभेदानां संभवाद्भिन्नत्वाद्भिन्नाभिन्नः । व्यञ्जनार्थयोर्विशेषस्वरूपष्टाग्रे तृतीयकाण्डस्य पञ्चमीगाथायां व्यक्तीभविष्यति । । ३० ।।
અવ. પર્યાયાર્થિકનયના વિષયસ્વરૂપ ભેદનું વિશેષ વર્ણન—
गाथा :
छाया :
सो उण समासओ यि वंजणणिअओ य अत्थणिअओ य । अत्थगओ य अभिण्णो भइयव्वो वंजणवियप्पो ।। ३० ।। स पुनः समासत एव व्यञ्जननियतश्च अर्थनियतश्च । अर्थगतश्च अभिन्नो भक्तव्यो व्यञ्जनविकल्पः ।। ३० ।।
= संक्षेपथी ४
अन्वयार्थ : सो उण = वणी, ते विभाग समासओ चिय वंजणणिअओ य = व्यं४ननियत अत्थणिअओ य = અને अर्थनियत. अत्थगओ य = अर्थनियतविभाग अभिण्णो = अभिन्न
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org