SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ संमतितर्कप्रकरणे, काण्ड -१, गाथा - २८ हेतुपूर्वकमनेकान्तसिद्धान्तज्ञातुर्मयादां दर्शयन्नाह - णिययवयणिज्जसचा सव्वनया परवियालणे मोहा । ते उण ण दिट्ठसमओ विभयइ सच्चे व अलिए वा ।। २८ ।। निजकवचनीयसत्याः स्वविषये ज्ञेये सम्यग्ज्ञानरूपाः सर्वनयाः सर्वे सङ्ग्रहादय नयाः परविचालने इतरनयविषयखण्डने मोहा मिथ्याज्ञानरूपाः । तस्माद् दृष्टसमयोऽनेकान्तात्मकवस्तुतत्त्वज्ञाता पुरुषस्तानेव नयान् पुनः शब्दोऽवधारणार्थकः, सत्यान् अलीकान् वा न विभजते “ एते नयाः सत्याः, एते च मिथ्याः” इति विभजनं न करोति । द्वादशारनयचक्रगुरुतत्त्वविनिष्टायगाथानुसारेण तु “ सर्वे नयाः स्वार्थप्रतिपादने सत्या अपि परविषयो - त्खनने मोघा निष्फला । तान् नयान् पुनरदृष्टसमयोऽज्ञातसिद्धान्तपरमार्थः सत्यान् अलीकान् वा इति एकान्तेन विभजते ।” इदं ग्राह्यम् - सर्वे नयाः स्वविषयप्रतिपादने सत्याः किन्तु त एव नया यदि परनयविषयोत्खनने प्रवृत्तास्तर्हि मिथ्याः, परनयविषयानामपि तदपेक्षया सत्यत्वात् । ततः प्रमाणतत्त्वज्ञाता नयेषु ‘एते नयाः सत्या एते च नया मिथ्या' इति विभजनं न करोति, किन्तु इतरनयसापेक्षमेव स्वाभिप्रेतनयं सत्यतयाऽवधारयति । ये च ' एते नयाः सत्या एते च नया असत्या' इति निष्टायेन विभजनं कुर्वन्ति ते न परमार्थतः सिद्धान्तज्ञातारः ।।२८।। અવ. અનેકાંત સિદ્ધાંતને જાણનારાની મર્યાદા गाथा : ४७ णिययवयणिज्जसा सव्वनया परवियाणलणे मोहा । ते उण ण दिट्ठसमओ विभयइ सच्चे व अलिए वा ।। २८ ।। निजकवचनीयसत्याः सर्वनयाः परविचालने मोहाः । ते पुण न दृष्टसमयो विभजते सत्यान् वा अलीकान् वा ।। २८ ।। अन्वयार्थ : णिययवयणिज्जसचा = पोताना विषयभां सत्य सेवा सव्वनया = सर्वे नयो परवियालणे = जीभ नयना निराङरामां मोहा = भिथ्या. दिट्ठसमओ = सिद्धांतनो भएर पुरुष ते = तेनयोनो सच्चे व छाया : Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy