________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-१७-२१
एकान्तपक्षे आत्मनि कर्मबन्ध-स्थितिकारणानामप्यनुपपत्तिरिति प्ररूपयन्नाह -
कम्मं जोगनिमित्तं बज्झइ बन्ध-ट्टिई कसायवसा ।
अपरिणउच्छिण्णेसु य बंधट्ठिइकारणं णत्थि ।।१९।। कर्म प्रकृतिबन्ध-प्रदेशबन्धात्मकं ज्ञानावरणीयादि योगनिमित्तं मनो-वाक्-कायव्यापारनिमित्तं बध्यते, बन्धस्थितिबंध्यत इति बन्धः कर्मैव, तस्य कर्मणः स्थिती रसबन्धस्थितिवन्धोभयं च कषायवशात् क्रोधादिसामर्थ्याप्टध्यते । अपरिणते उच्छिन्ने च एकान्तापरिणामिनि एकान्तक्षणिके च बन्धस्थितिकारणं नास्ति न संभवति ।
इदं प्रतिपत्तव्यम् - मनोवचनकाययोगानां व्यापारे सत्यात्मनि कर्म बध्यते, बद्धकर्मणां स्थितिष्टा क्रोधादिकषायसामर्थ्यवशात् । किन्त्वेकान्तनित्यपक्षस्य केनचित् परिणामेना-परिणामिनि तथैकान्तानित्यपक्षस्यानुसन्धानविकले चात्मनि कर्मबन्धस्थितिकारणानां योगकषायानामसम्भवादनेकान्तस्वरूपे नित्यानित्यपक्ष एव बन्धस्थितिकारणं युक्तिसङ्गतम् ।।१९।। एकान्तवादिनां संसारनिवृत्तिमोक्षसुखप्राप्त्यर्था प्रवृत्तिः असङ्गतेति प्रदर्शनार्थमाह -
बंधम्मि अपूरन्ते संसारभओघदंसणं मोझं ।
बन्धं व विणा मोक्खसुहपत्थणा णत्थि मोक्खो य ।।२०।। बन्धेऽपूर्यमाणे कर्मबन्धेऽविद्यमाने सति संसारभयौघदर्शनं चतुर्गत्यादिरूपे तत्कारणे वा मिथ्यात्वाविरत्यादौ संसारे भीतिप्राचुर्यस्य पर्यालोचनं मौढ्यं मूढता मिथ्याज्ञानमिति यावत्, बन्धं च विना मोक्षसुखप्रार्थना संसारनिवृत्तिप्रभवस्य महानन्दरूपमोक्षसुखस्य प्रार्थना नास्ति न भवत्येव मोक्षप्टानुपपन्नः, निरपराधपुरुषवदबद्धस्य मोक्षासम्भवात् ।
इदं लभ्यम् - प्रकृति-स्थिति-अनुभाग-प्रदेशात्मकबन्धहेत्वोः योग-कषाययोरेकान्तनित्यानित्यपक्षे विरुद्धत्वात् कर्मबन्धस्यासम्भवः, तदसम्भवाञ्च “संसारम्मि असारे नत्थि सुहं वाहिवेअणापउरे” इत्यादि संसारे भय-दुःखप्राचुर्यस्य चिन्तनं मिथ्याज्ञानरूपमेवानुपपद्यमानसंसारदुःखौघविषयत्वात् । तथा कर्मबन्धं विना मोक्षो मोक्षसुखप्रार्थना च कुतः ? तस्मादेकान्तपक्षे संसारः, सुखदुःखसम्बन्धः, सुखप्राप्ति-दुःखनिवृत्यर्थं प्रयत्नम्, कर्मबन्धस्थिति
___JainEducation International 2010_02
For Private & Personal Use Only
www.jainelibrary.org