________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-१७-२१
३३
एकान्ततया नित्यानित्यप्ररूपकपक्षद्वये संसारो न संभवतीति निरूपयन्नाह -
ण य दव्वट्ठियपक्खे संसारो णेव पज्जवणयस्स ।
सासय-वियत्तिवायी जम्हा उच्छेअवाईआ ।।१७।। द्रव्यार्थिकपक्षे द्रव्यास्तिकनयाभिमते वस्तुनि संसारो न संभवति, यस्मात् शाश्वतव्यक्तिवादी नित्यवादी, आत्मादि सर्वं द्रव्यं नित्यमेव मनुते । एवकारोऽप्यर्थकः, स च भिन्नक्रमः । तथा पर्यवनयस्य पर्यायास्तिकनयस्य पक्षेऽपि संसारो न संभवति, यस्माद् उच्छेदवादिका अनित्यवादी, द्रव्यजातं क्षणिकमेव स्वीकरोति ।
इदं तात्पर्यम् - पदार्थमात्रस्य नित्यवादिनि द्रव्यार्थिकनयपक्षे संसारो न घटते, नित्यैकरूपे देव-तिर्यगाद्यवस्थालक्षणोत्तरपर्यायप्राप्तेरभावादौदयिकादीनां च भावानां मध्ये अनुभूतेतरभावप्राप्तिरूपपरिणामस्याऽप्यसंभवात् । तथा क्षणिकवादी पर्यायास्तिकनयपक्षेऽपि संसारो न घटते, उत्तरपर्यायप्राप्तिरूपगतेर्भावान्तरापत्तेर्वा कथञ्चिदन्वयिरूपं विनाऽयोगात् ।।१७।। नित्यानित्यैकान्तपक्षद्वयेऽपि सुख-दुःखसम्बन्धस्यानुपपत्तिदर्शनार्थमाह -
सुह-दुक्खसम्पओगो ण जुज्जए णिञ्चवायपक्खम्मि ।
एगंतुच्छेयम्मि य सुह-दुक्खवियप्पणमजुत्तं ।।१८।। नित्यवादपक्षे द्रव्यास्तिकनयमते सुखदुःखसम्प्रयोगोऽनुकूलवेदनरूपेण सुखेन, प्रतिकूलवेदनरूपेण दुःखेन सम्बन्ध आत्मनो न युज्यते न घटते । एकान्तोच्छेदे च पर्यायास्तिकनयमतेऽपि सुःखदुःखसम्बन्धो न घटत इति सम्बन्धः । तथोभयपक्षेऽपि सुखदुःखविकल्पनं सुखार्थं दुःखवियोगार्थं च विशिष्टं यतनमयुक्तम् अघटमानकम् ।
इदं निरूपणीयम् - नित्यवादे पदार्थस्याविचलितरूपत्वात्, सुखस्वभावस्याभ्युपगमे सदा सुखरूपतैव दुःखस्वभावाभ्युपगमे च नित्यं दुःखरूपतैव संभवेन्न तु कस्मिंचित् काले सुखसम्बन्धः कस्मिंचिञ्च काले दुःखसम्बन्धः । तथाऽनित्यवादेऽपि अन्वयिरूपतत्त्वस्याभावात् सुख-दुःखसम्बन्धो न युज्यते । अनेन प्रकारेण पक्षद्वयेऽपि सुखप्राप्त्यर्थं दुःखवियोगार्थं च विशिष्टः प्रयत्नो न संभवति ।।१८।।
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org