SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ संमतितर्कप्रकरणे, काण्ड-१, गाथा-५ पर्यायास्तिकनयस्य भेदान् निरूपयति मूलणिमेणं पज्जवणयस्स उज्जसुयवयणविच्छेदो । तस्स उ सद्दाईआ साहपसाहा सुहुमभेया ।।५।। ऋजुसूत्रवचनविच्छेदः ऋजुसूत्रनयस्य वचनं पदं वाक्यं वा तस्य विच्छेदोऽन्तः सीमा अर्थाद् ऋजुसूत्रनयेण भवन् वचनव्यवहारः पर्यवनयस्य पर्यायास्तिकनयस्य मूलणिमेणं-मूलमादिः णिमेणं इति देश्यशब्दस्तस्यार्थः स्थानम् - आधारः । सूक्ष्मभेदाः सूक्ष्म भेदो विशेषो येषां ते तथा शब्दादिकाः शब्द- समभिरूढै - वम्भूतास्त्रयो नयास्तस्य ऋजुसूत्रनयस्य तुः एवकारार्थकः शाखाप्रशाखाः स्थूल-सूक्ष्म-सूक्ष्मतरदर्शित्वात् शाखादिरूपाः । अयं तत्त्वार्थः विशेषग्राहकः पर्यायास्तिकनयष्टातुर्भेदः, ऋजुसूत्र - शब्द-समभिरूढएवम्भूताख्यः । तत्रापि ऋजुसूत्रनयः पर्यायास्तिकनयस्य मूलाधारः, कालकृतभेदादारभ्य एव पर्यायनयस्य प्रारम्भात्, कालकृतभेदष्टार्जुसूत्रनय एव न तु व्यवहारनये । शेषाणां शब्दादिकानां क्रमिकसूक्ष्मरूपेण ऋजुसूत्रानुगामित्वात्तस्यैव भेदरूपाः । - देश-कालान्तरसम्बद्धस्वभावरहितं साम्प्रतिकमेकस्वभावं वस्तुतत्त्वस्य ग्राहक ऋजुसूत्रनयः वर्तमानकालीनमपि वस्तुतत्त्वं लिङ्गवचनादिभेदाद्भिन्नमिति मन्ता शब्दनयः । साम्प्रतिकं समानलिङ्गवचनादि वस्तुतत्त्वमपि संज्ञाभेदाद्भिन्नं भवतीति ग्राहकः समभिरूढनयः । यथा संज्ञाभेदाद्वस्तु भेदवत्तथा क्रियाभेदादपि, एवमेकपर्यायशब्दस्यैकार्थे सत्यपि क्रियाकाल एव वस्तुतत्त्वं न तु क्रियाशून्यकाल इति एवम्भूतनयो वस्तुतत्त्वं स्वीकरोति ।। ५ ।। અવ. પર્યાયાસ્તિકનયના ભેદો : ઋસૂત્રનય, શબ્દનય, સમભિરૂઢનય અને એવંભૂતનય – मूलणिमेणं पज्जवणयस्स उज्जुसुयवयणविच्छेदो । तस्स उ सद्दाईआ साहपसाहा सुहुमभेया ।। ५ ।। गाथा : छाया : Jain Education International 2010_02 १३ मूलनिमेणं पर्यवनयस्य ऋजुसूत्रवचनविच्छेदः । तस्य तु शब्दादिका शाखाप्रशाखाः सूक्ष्मभेदाः ।। ५ ।। For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy