________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-३
विस्तारः, तस्य तीर्थकरवचनद्रव्यपर्यायविस्तारस्य मूलव्याकरणी आद्यव्याख्याता, व्याख्यानञ्च ज्ञानं विना न इति आद्यज्ञाता वा । द्रव्यास्तिकप्टा द्रव्यं सत्ता, तत्र ‘अस्ति' इति मतिरस्येति द्रव्यास्तिकः-पर्यायान् गौणीकृत्य द्रव्यस्यैव ग्राहको नयो द्रव्यास्तिकनयः, पर्यवनयष्टा पर्यवपर्यायावेकार्थौ - पर्यायास्तिकनयः-क्रमभाविनः पर्यायाः, तत्र ‘अस्ति' इति मतिरस्येति पर्यायास्तिकः - द्रव्यमुपसर्जनीकृत्य पर्यायस्यैव ग्राहको नयः पर्यायास्तिकनयः । शेषास्तु नैगमादयो विकल्पा भेदा अनयोर्द्रव्यास्तिक-पर्यायास्तिकनययोः ।
अयं भावार्थः - गृहीत्वा संयमधर्मम्, जित्वा परीषहोपसर्गरिपून्, लब्ध्वा केवलज्ञानम्, स्थापयति चतुर्विधसङ्घरूपं प्रथमगणधररूपं वा तीर्थं परमात्मा तीर्थकरनामकर्मोदयात्तत्स्वाभाव्याद्वा । तेषां तीर्थकराणां वचनमाचाराङ्गादिद्वादशाङ्गरूपम, तच्छास्त्रवचनं द्विप्रकारकम्-सामान्यपदार्थबोधकं विशेषपदार्थबोधकञ्च । सामान्यरूपेण पदार्थान् बोधयित्री या अभेदगामी दृष्टिः सा द्रव्यास्तिकनयस्वरूपा तथा विशेषरूपेण पदार्थान् बोधयित्री या भेदगामी दृष्टिः सा पर्यायास्तिकनयस्वरूपा । इमौ द्रव्यास्तिकपर्यायास्तिकनयावेव समस्तविकल्पानां शास्त्रवाक्यानां चाधारभूतौ । नैगमादयः सर्वे नयास्तयोरेव भेदरूपाः । एतद्ग्रन्थकारमते सामान्यग्राहिणो नैगमस्य सङ्ग्रहनये, विशेषग्राहिणो च नैगमस्य व्यवहारनये समावेशात् सङ्ग्रहव्यवहाररूपौ द्वौ भेदौ द्रव्यास्तिकनयस्य तथा ऋजुसूत्र-शब्दसमभिरूढ़-वम्भूतस्वरूपाप्टात्वारो भेदाः पर्यायास्तिकनयस्य ।।३।। અવ. પ્રકરણમાં જણાવવા યોગ્ય મુખ્ય વિષયનો નિર્દેશगाथा : तित्थयरवयणसंगह-विसेसपत्थारमूलवागरणी ।
दव्यट्ठिओ य पजवणओ य सेसा वियप्पा सिं ।। ३ ।। तीर्थकरवचनसङ्ग्रह-विशेषप्रस्तारमूलव्याकरणी ।
द्रव्यास्तिकश्च पर्यवनयश्च शेषा विकल्पास्तयोः ।। ३ ।। अन्वयार्थ : तित्थयरवयणसंगह-विसेसपत्थारमूलवागरणी = तीर्थ ४२
પરમાત્માના વચનોના જે સામાન્ય અને વિશેષ વિસ્તારનો મુખ્ય પ્રતિપાદક दव्वढिओ य = द्रव्यातिनय पज्जवणओ य = अने पर्यायास्तिनय. सेसा = शेष (नयो) सिं = ते (नयो)॥ वियप्पा =(मेहो.
छाया :
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org