SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ संमतितर्कप्रकरणे, काण्ड - १, गाथा - १ गन्तॄणां भवजिनानां भवन्त्यस्मिन् कर्मवशवर्त्तिनः प्राणिन इति भवः संसारः, तद्धेतुत्वाद् रागादयोऽपि भवशब्दवाच्याः, तं जितवन्त इति भवजिनास्तेषां भवजिनानाम् । जिनानाम् तीर्थकरपरमात्मनाम् शासनम्-शास्यन्ते-प्रकाश्यन्ते जीवादयः पदार्था यथावस्थितत्वेनानेनेति शासनं द्वादशाङ्गम् । सिद्धं प्रतिष्ठितम् - स्वमहिम्नैव निष्टितप्रामाण्यं स्वतः सिद्धं नातः प्रकरणात् प्रतिष्ठाप्यम् । तथा सिद्धार्थानाम् - सिद्धाः प्रमाणान्तरसंवादतो निष्टिता येऽर्थाः पदार्थास्तेषां प्रतिपादकम् इति शेषः, अर्हत्सर्वज्ञशासनम् । तथा कुसमयविशासनम् सम्यक् प्रमाणान्तराविसंवादित्वेनेयन्ते ज्ञायन्ते इति समया नष्ट - - मुष्टि-चिन्ता-लाभाऽलाभादयः पदार्थाः, तेषां विविधम्-अन्यपदार्थकारणत्वेन कार्यत्वेन चानेकप्रकारेण शासनं प्रतिपादकमिति समयविशासनम्, कुः पृथ्वी तस्याः प्रतिपादनमिव समयानां प्रतिपादकं जिनशासनमथवा कुत्सिता एकान्तप्रमाणबाधितार्थप्रतिपादकाः समयाः कपिलादिप्रणीतसिद्धान्ताः कुसमया जैनेतरदर्शनास्तेषां विशासनंविध्वंसकम्, दृष्टेष्टविषये विरोधाद्युद्भावकत्वेनेति कुसमय• विशासनं द्वादशाङ्गमेव जिनानां शासनम् । - अयम्भावः - अनेकान्तवादमूलं जैनशासनम् । ततोऽत्र ग्रन्थे ग्रन्थकारेण विविधैः प्रकारैः प्रपञ्चिता अनेकान्तवादस्य प्ररूपणा । तदनेकान्तवादस्य यथार्थप्ररूपकानां जिनेश्वराणां तत्शासनस्य च स्वरूपमस्यां गाथायां ग्रन्थकारमहर्षिणा दर्शयित्वा कृतं प्रारम्भमङ्गलम् । 'सिद्धं, सिद्धत्थाणं, कुसमयविसासणमिति त्रीणि विशेषणानि शासनस्य तथा 'ठाणमणोवमसुहमुवगयाणं, भवजिणाण 'मिति द्वे विशेषणे जिनेश्वराणाम् । प्रत्येकविशेषणेन खण्डितानि प्रमाणबाधितैकान्तमतानि । तत्प्रष्टुकामैस्तर्कपञ्चाननश्रीमदभयदेवसूरीश्वरकृता टीका द्रष्टव्या । 19 ।। Jain Education International 2010_02 ३ અવ. અનંત દુખમય સંસારથી છૂટવાનો અને અનંત સુખમય મોક્ષને પામવાનો અવંધ્ય ઉપાય હોય તો તે એક માત્ર રત્નત્રયીની આરાધના છે અને આ રત્નત્રયીને આત્મસાત્ કરવાનો ઉપાય જિનવચનની ઉપાસના છે. જિનવચનો સમુદ્ર જેવા ગંભીર છે. સૂક્ષ્મ અને પરિકર્મિત બુદ્ધિ વિના જિનવચનનો પરમાર્થ પામી શકાતો નથી. જિનવચનોને સહેલાઈથી સમજી શકાય તે માટે તેમને ચાર અનુયોગમાં વહેંચવામાં खाव्या छे. १ - द्रव्यानुयोग; २ - गणितानुयोग, उ- थरारणानुयोग अने ४- धर्मस्थानुयोग. अनुयोगने समष्ठवाना यार द्वार आगमोभां छे. १ - उपद्रुम, २- निक्षेप, उ- अनुगम अने ४- नय. तेमां नयोना ज्ञान For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy