________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-१
यैस्तेषां मन्दबुद्धीनां, सदुपकृतिहेतवे ।
वृत्तिः संमतितर्कस्य, कुर्वे पार्श्वप्रभाभिधा।।९।। इह हि शारीरमानसाधनेकदुःखसन्तप्तेनाष्टविधकर्मावबद्धेन जन्तुना तद्धानाकाक्षिणावश्यमेव जिनवचनमुपायत्वेनोपादेयम् । यतस्तदेव यथार्थावगमसंपादनद्वारेण तन्निर्मूलनायालम् । तस्य चावगतये चतुर्णामनुयोगद्वाराणामध्ययनमपेक्षितम् । अनुयोगं विना सूत्राणामविसंवादि ज्ञानं न सम्भवति । द्रव्य-गणित-चरण-कथारूपे च तस्मिन् द्रव्यानुयोग एव प्रधानः । स च दुर्ग्राह्यो मन्दमतीनामिति तद्व्युत्पादनार्थं श्री सिद्धसेनाचार्याः सन्मतितर्काख्यं प्रकरणं विरचयन्ति। तत्त्वार्थाधिगमे नयप्रमाणपरिज्ञानमुपयुज्यते, तदुक्तं भगवतोमास्वातिना 'प्रमाणनयैरधिगमः' [तत्त्वार्थ-१/४] तत्त्वानामिति भावः । द्रव्यानुयोगे प्रधानतया तत्त्वस्य प्रमाणेन नयैप्टााधिगमः क्रियते । ताभ्यां तत्त्वनिर्णयप्रकारो हि प्रकरणस्यास्य प्रतिपाद्यः । अत्र प्रथमे काण्डे नयस्वरूपम्, द्वितीय उपयोगस्वरूपं तृतीये च प्रमेयस्वरूपमुपवर्णितं श्रीमद्भिः । तत्र नयकाण्डमारभमाणो ग्रन्थकारोऽसाधारणगुणोत्कीर्तनरूपपारमार्थिकस्तवनया शासनस्य स्तवाभिधायिकां मङ्गलगाथामाह -
सिद्धं सिद्धत्थाणं ठाणमणोवमसुहं उवगयाणं ।
कुसमयविसासणं सासणं जिणाणं भवजिणाणं ।।१।। अनुपमसुखं स्थानमुपगतानां भवजिनानां जिनानां शासनं सिद्धं सिद्धार्थानां प्रतिपादकं कुसमयविशासनं चेति अन्वयः ।
अवयवार्थस्तु स्थानम् तिष्ठन्ति सकलकर्मक्षयोत्पन्नानन्तज्ञानाद्यष्टगुणाः शुद्धात्मानोऽस्मिन्निति स्थानं लोकाग्रलक्षणम, स्थितिर्वा स्थानमात्मस्वरूपप्राप्तिरित्यर्थः । अनुपमसुखं न विद्यते उपमा यस्य तदनुपमम्, अनुपमं सुखमानन्दरूपं यस्मिंस्तदनुपमसुखं मोक्षसुखमित्यर्थः, स्वाभाविकत्वेनात्यन्तिकत्वेन सकलव्याबाधारहितत्वेन च मोक्षसुखस्य सर्वसुखातिशायित्वात् । तत् स्थानमुपगतानाम् 'उप' इति कालसामीप्येन गतानां प्राप्तानाम्, अघातिकर्मणां यावता कालेन क्षयस्स्यात्तावता कालेन व्यवधानं येषां तेषामित्यर्थः, यद्वा प्रकर्षेण गतानां यद्वा प्रकर्षेणापुनरावृत्त्या गतानामुपगतानाम् । सर्वोत्कृष्टसुखशालिमुक्तिलक्षणस्थानं स्वल्पकालेन
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org