________________
२६२
संमतितर्कप्रकरणे, काण्ड-३, गाथा-६९
इति महावादि-महातार्किकशिरोमणिश्रीसिद्धसेनदिवाकरसूरिप्रणीतस्य संमतितर्कप्रकरणस्य प्रथमकाण्डस्य व्याख्यानवाचस्पति-आगमाद्यनेकविधशास्त्रमर्मज्ञ-परिणतस्वपरदर्शनबोधपूज्यपादाचार्यदेवश्रीमद्-विजयरामचन्द्रसूरीश्वराणां शिष्यरत्नानां वर्धमानतपोनिधिगुरुचरणसमर्पितजीवनलक्ष्मी-पूज्यपादाचार्यदेव-श्रीमद्-विजयगुणयशसूरीश्वराणां चरणभृङ्गायमान-आचार्यविजयकीर्तियशसूरिणा विरचिता पार्श्वप्रभा
टीका समाप्तिमगमत् ।
-: अथ प्रशस्ति :द्रव्यानुयोगमूलानि, गणभृगौतमादयः । कर्त्तारो द्वादशाङ्गिना, जयन्तु जैनशासने ।।१।। मन्दानामुपकाराया-नुयोगस्य विभाजकाः । आर्यरक्षितसूरीशाः, जयन्तु जैनशासने ।।२।। संमतितर्ककर्तारं, दार्शनिकदिवाकरम् । सिद्धसेनं महाबुद्धं, श्रये तर्कशिरोमणिम् ।।३।। चान्द्रकुलस्य चन्द्रेण, अभयाङ्कितसूरिणा । संमतौ कीर्तिता येन, वृत्तिर्वादमहार्णवा ।।४।। श्रुयन्ते मल्लवाद्यादि-रचिता बुद्धिवैभवात् । वृत्तयो नैव दृश्यन्ते, किन्तु कालादिकारणात् ।।५।। नव्यन्यायेन शास्त्राणां, सारतत्त्वप्रदायिने । तर्कार्काय नमस्तेभ्यो, यशस्कायाय योगिने ।।६।। विजयानन्दसूरीशे मूर्तिमण्डनकारिणि । न्यायाम्भोनिधिनाथे च, नतिर्मतिस्तु मे सदा ।।७।। श्रीमत्कमलगच्छेशः, यः सद्धर्मसुरक्षकः । निःस्पृहत्वे शिरोमौली, नमस्कारोऽस्तु मौलिना ।।८।। दीक्षा-शिक्षासुदानेन, सद्गुरुं प्रेम-रामयोः । आगमाब्धिसुवेत्तारं, वन्दे सद्दानसूरिणम् ।।९।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org