________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-६६-६७
२५७
बहुश्रुतत्वख्यातिमान्, संमतष्टा संसाराभिनन्दिनां गतानुगतिकप्रवाहपतितानामविदितशास्त्राभिप्रायजनानां शास्त्रज्ञत्वेन बहुमतः, अत एव शिष्यगणसंपरिवृतष्टा श्रुतविशेषानभिज्ञैः शिष्यगणैः समन्तात् परिवृत्तः, अविनिष्टिीतष्टा समये सिद्धान्तपर्यालोचनेऽनादृतत्वात् सम्यगपरिणतः, तथा तथा सिद्धान्तप्रत्यनीकः सिद्धान्तविनाशको निस्सारप्ररूपणया अन्यागमेभ्योऽपि भगवदागममधःकरोतीति यावत् ।
इदं प्ररूप्यम् - शास्त्राणां सम्यग्पर्यालोचनाभावे सम्यगपरिणतो यो यथा यथा विशेषतो बहुश्रुतः, बहुजनसंमतः, बहुशिष्यपरिवृत्तष्टा भवति तथा तथा स जैनशासनस्य महाप्रत्यनीको भवति । ततः सूत्राध्ययनं पप्टाात्तदर्थपर्यालोचने निष्टायतः प्रयत्नः करणीयः ।।६६ ।। अनेकान्तात्मकतत्त्वज्ञानाभावात् क्रियायोगस्य निष्फलतां कथयन्नाह -
चरण-करणप्पहाणा ससमय-परसमयमुक्कवावारा ।
चरण-करणस्स सारं णिच्छयसुद्धं ण याणंति ।।६७।। चरण-करणप्रधानाप्टारणं व्रतश्रमणधर्मादि: करणं पिण्डविशुद्धयादिः, एतयोप्टारणकरणयोः प्रधानास्तदनुष्ठानतत्परा अपि साधवो यदि स्वसमय-परसमयमुक्तव्यापारा अनेकान्तात्मकवस्तुप्ररूपणादयं स्वसमयः, केवलनयाभिप्रायप्रतिपादनाञ्चायं परसमयः इत्येतस्मिन् परिज्ञाने प्रवृत्तिरहितास्तर्हि निष्टायशुद्धं निष्कलङ्कं चरणकरणस्य चारित्रधर्मानुष्ठानस्य सारं फलं न जानन्ति नानुभवन्ति अथवा चरणकरणयोस्सारं निष्टायेन शुद्धं सम्यग्दर्शनं ते न जानन्ति ।
इदं सारम् - ये केवलं क्रियायोग एव तत्परा न तु ज्ञानयोगे, ते खलु क्रियायोगस्य फलमनुभवितुं न समर्थाः । क्रियायोगयुक्तेन ज्ञानयोगेनैव स्वसमय-परसमयतात्पर्यार्थावगमो भवति, तेन च यथावस्थितवस्तुतत्त्वावबोधः, ततष्टा निष्टायेन शुद्धसम्यग्दर्शनमाविर्भवति । तस्मात् साधुना सततं स्वसमय-परसमयतात्पर्यार्थकारणरूपस्यानेकान्तवादस्य ज्ञानार्थं गुर्वाज्ञया यत्नः करणीयः ।।६७।।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org