SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ संमतितर्कप्रकरणे, काण्ड-३, गाथा-६१-६२ २५१ इदं ज्ञातव्यम् - परयूथ्या भवेयुर्वा स्वयूथ्याः किन्तु ते यदि एकैकनयप्रसृतागमं पठित्वा 'वयं सूत्रधराः, वयं गीतार्थाः' इति मन्यन्ते शास्त्रोक्तविवेकरहितं च पदार्थं स्वीकृर्वन्ते तर्हि ते शास्त्रानध्येतृवदज्ञानिन एव । तेनानेकान्तदृष्ट्या शास्त्रज्ञानप्राप्त्यर्थं प्रयत्नः करणीयः ।।६१ ।। एकनयदर्शनेन प्रवृत्तानां पूर्वोक्तगाथोक्तानां यो दोषस्तदुद्भावयन्नाह - सम्मइंसणमिणमो सयलसमत्तवयणिज्जणिद्दोस । अत्तुक्कोसविणट्ठा सलाहमाणा विणासेंति ।।६२।। आत्मोत्कर्षविनष्टा एकनयवादिनस्त्वविषये सूत्राभिप्रायस्य व्यवस्थापनेनात्मोत्कर्षण विनष्टाः स्याद्वादाभिगमं प्रति अनाद्रियमाणा ‘वयं सूत्रधरा' इत्यात्मानं श्लाघमानाः सकलसमाप्तवचनीयनिर्दोषं 'स्यान्नित्यः' इत्यादिसमस्तधर्मव्यापिनिरूपणेन निर्दोषमेतत् परस्परविषयाऽपरित्यागप्रवृत्तानेकनयात्मकं सम्यग्दर्शनं विनाशयन्ति । इदं नेयम् - ये एकनयविषये सूत्रार्थं व्यवस्थाप्य स्याद्वादमपलपन्ति तथा 'वयं ज्ञानिनः' इत्यादि स्वप्रशंसां कुर्वन्ति, नूनं ते स्याद्वादमयस्य सम्यग्दर्शनस्य विनाशं कुर्वन्ति अर्थात् सम्यग्ग्दर्शनयोग्यां स्वपरिणतिं नाशयन्ति ।।६२ ।। અવ. વિવેક વગરનો આગમબોધ અજ્ઞતાનો સૂચક છે એ પ્રમાણે જણાવતાં કહે છેगाथा : पाडेक्कनयपहगयं सुत्तं सुत्तहरसद्दसंतुट्ठा । अविकोवियसामत्था जहागमविभत्तपडिवत्ती ।।१।। प्रत्येकनयपथगतं सूत्रं सूत्रधरशब्दसंतुष्टाः । अविकोविदसामर्थ्या यथागमाविभक्तप्रतिपत्तयः ।।६१।। अन्वयार्थ : पाडेक्कनयपहगयं = प्रत्येॐ (8-8) नयमान अनुस२नार सुत्तं = सूत्रने (मान) सुत्तहरसद्दसंतुट्ठा = 'सूत्र५२' शमां संतुष्ट थये।, जहागमविभत्तपडिवत्ती = आम मु४५ विवेsपूर्ण ५४ार्थन स्वी॥२ न. ४२॥२॥ (मने तेथी तो) अविकोवियसामत्था = शस्त्रना અર્થને નહિ જાણનારા (હોવાથી અજ્ઞાની છે). छाया : Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy