________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-४३-४५
२२५
हेतुवादाहेतुवादागमप्ररूपणाद्वारेण सिद्धान्ताराधक-विराधकयोः स्वरूपं दर्शयन्नाह -
जो हेउवायपक्खम्मि हेउओ आगमे य आगमिओ ।
सो ससमयपण्णवओ सिद्धंतविराहओ अन्नो ।।४५।। यः प्ररूपको हेतुवादपक्षे जीवकर्मादौ युक्तिमार्गसहे वस्तुनि हेतुको युक्तिप्रणयनप्रवीणः, आगमे च देवलोक-निगोदसंख्याद्यागममात्रगम्यार्थे आगमिकः आगममात्रप्रज्ञापनाप्रवीणः, स स्वसमयप्रज्ञापकः स्वसिद्धान्तस्य द्वादशाङ्गस्य प्रतिपादनकुशल: । अन्यः प्रागुक्तविशेषणविकल: प्रज्ञापकः सिद्धान्तविराधकः सर्वज्ञप्रणीतागमस्य निस्सारताप्रदर्शनात् तत्प्रत्यनीको भवतीति यावत् ।
इदं पश्यम् - द्विविधं पदार्थम् - हेतुगम्यमागमगम्यं च । यो वक्ता हेतुगम्यार्थं हेतुत आगमगम्यार्थं चागमतः प्ररूपयति स सिद्धान्ताराधको भवति, अन्यथा परमार्थतस्तदर्थस्य प्रतिपादयितुमशक्यत्वात् । उक्तप्रकारादन्यथाप्ररूपको जिनवचनानुयोगविनाशको भवति ।
तथाहि-युक्तिमार्गसहेष्वपि पदार्थेष्वागमगम्यत्वमेव पुरस्कुर्वता तेन नास्तिकादिप्रणीतकुयुक्तिनिराकरणाभावान्न श्रोतृणां द्रढप्रतीतिः कारयितुं पार्यते, आगमगम्येषु तु युक्तिपधातीतेषु युक्तिं योजयन् विफलारम्भत्वेन स्वयं वैलक्ष्यं भजते श्रोतुष्टानादेयवचनो भवतीति न विपरीतव्यवहारिणा तेन सम्यक्सिद्धान्त आराधितो भवति ।।४५ ।। અવ. હેતુવાદ અને અહેતુવાદ સ્વરૂપ આગમનું પૃથક્કરણ કરતાં જણાવે છે– गाथा : दुविहो धम्मावाओ अहेउवाओ य हेउवाओ य ।
तत्थ उ अहेउवाओ भवियाऽभवियादओ भावा ।।४३।। द्विविधो धर्मावादोऽहेतुवादश्च हेतुवादश्च ।
तत्र तु अहेतुवादो भव्याभव्यादयो भावाः ।।४३।। अन्वयार्थ : धम्मावाओ = धर्मावाह-वस्तुना याने संपूर्ण शते ४५॥वना२ ॥राम
दुविहो = २-. अहेउवाओ य = (१) अतुवा य = अने हेउवाओ = (२) उतुवाह. तत्थ उ = वणी, तेथे पैड़ी अहेउवाओ
छाया:
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org