________________
२२४
संमतितकंप्रकरणे, काण्ड-३, गाथा-४३-४४
आगमस्य हेतुवादाहेतुवादाभ्यां द्वैविध्येन विभजनं दर्शयन्नाह -
दुविहो धम्मावाओ अहेउवाओ य हेउवाओ य ।
तत्थ उ अहेउवाओ भवियाऽभवियादओ भावा ।।४३।। धर्मावादोऽस्तित्वादीनां वस्तुधर्माणामासमन्ताद्वादस्तत्प्रतिपादक आगमो द्विविधः, अहेतुवादष्टा हेतुवादष्टा । तत्र त्वहेतुवादो भव्याभव्यादयो भावा भव्याभव्यस्वरूपप्रतिपादक आगम इत्यर्थः । हेतुवादप्टौतद्विपरीतो युक्तिगम्य इत्यर्थः ।
एतद भाव्यम् - वस्तुधर्माणां संपूर्णतया प्रतिपादक आगम धर्मावाद उच्यते । स द्विविधः (१) अहेतुवादः - प्रमाणान्तरानवगतवस्तुप्रतिपादक आगमरूपः, (२) हेतुवादः - तद्विपरीतस्वरूपः । अहेतुवादागमष्टा भव्याऽभव्यस्वरूपप्रतिपादकागमरूपः 'अयं भव्यः, अयं त्वभव्यः' इत्यत्रागममन्तरेण न प्रमाणान्तरप्रवृत्तिसंभवो मतिश्रुतज्ञानावलम्व्यपेक्षया । हेतुवादागमस्य लक्षणं तूत्तरगाथायां वक्ष्यते ।।४३ ।। हेतुवादरूपधर्मावादस्य लक्षणं दर्शयन्नाह -
भविओ सम्मइंसण-णाण-चरित्तपडिवत्तिसंपन्नो ।
णियमा दुक्खंतकडो त्ति लक्खणं हेउवायस्स ।।४४।। सम्यग्दर्शन-ज्ञान-चारित्रप्रतिपत्तिसंपन्नो रत्नत्रयीसंपूर्णो भव्यजीवो नियमाद् दुःखान्तकृदिति संसारदुःखस्यान्तं करिष्यत्यर्थात् कर्मव्याधेरात्यन्तिकं विनाशमनुभविष्यतीति हेतुवादरूपागमस्य लक्षणम् ।।
अयं भावार्थः - हिनोति गमयत्यर्थमिति हेतुस्तत्परिच्छिन्नोऽर्थोऽपि हेतुः, तं वदति य आगमः स हेतुवादः । स च प्रायो दृष्टिवादः, तस्य द्रव्यानुयोगत्वात्, “सम्यग्दर्शन-ज्ञानचारित्राणि मोक्षमार्गः” [तत्त्वार्थ सूत्र-१-१] इत्याद्यनुमानादिगम्यार्थस्य तत्र प्रतिपादनात् । ततोऽनुमानादिगम्यार्थस्य वर्णनं यत्र क्रियते स हेतुवादागमः । तथाहि - अयं भव्यो नियमात संसारदुःखान्तं करिष्यति, सम्यग्दर्शन-ज्ञान-चारित्रप्राप्तिपरिपूर्णत्वात् । तथाऽयं पुद्गलो निर्जीवः, जीवलक्षणस्याविद्यमानत्वात् । इत्यादीनि दृष्टान्तानि हेतुवादागमस्य विषयभूतानि ज्ञेयानि ।।४४ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org