________________
२१८
संमतितर्कप्रकरणे, काण्ड-३, गाथा-३८-४२
प्रस्तुतमेवाक्षेपद्वारेणोपसंहरन्नाह -
बहुयाण एगसद्दे जइ संजोगाहि होइ उप्पाओ ।
णणु एगविभागम्मि वि जुज्जइ बहुयाण उप्पाओ ।।४०।। यदि बहूनां व्यणुकादीनां संयोगे सति एकशब्द एकशब्दव्यपदेशनिदानं त्र्यणुकस्योत्पादो भवति । ननु आक्षेपे एकविभागेऽपि त्र्यणुकादेरेककार्यद्रव्यस्य विनाशेऽपि बहूनां कारणद्रव्यरूपावयवानामुत्पादो युज्यते एव ।
इदमायोज्यम् - प्रस्तुतवार्तामुपसंहरनाचार्यः प्राह - यदि व्यणुकादीनामनेकद्रव्यानां संयोगे सति त्र्यणुकादेरेककार्यद्रव्यस्योत्पादो मन्यते, तर्हि तेषामेव त्र्यणुकादिकार्यद्रव्यानां विनाशे सति बहुनां द्रव्यानामुत्पादः कथं न युज्यते ? युज्यते एव, तेनैव कारणेन ‘घटविनाशाद् बहूनि कपालान्युत्पन्नानी'त्यनेकाभिधानप्रत्ययव्यवहारो युक्तः । तस्माद् विभागजातोत्पादः सिद्ध एव ।।४०।। एकद्रव्यस्यैकसमये भवतोऽनन्तपर्यायान् घटयन्नाह -
एगसमयम्मि एगदवियस्स बहुया वि होंति उप्पाया ।
उप्पायसमा विगमा ठिई उ उस्सग्गओ णियमा ।।४१।। एकसमये एकद्रव्यस्य बहवोऽपि उत्पादा भवन्ति, उत्पादसमा विगमा उत्पादसमानसंख्या विनाशा अपि विनाशमन्तरेणोत्पादस्यासंभवात्, स्थितिस्तु तुशब्दस्याप्यर्थकत्वात् स्थितिरपि उत्सर्गतः सामान्यरूपतया तथैव नियताः स्थितिरहितस्योत्पादस्याभावात् ।
इदं भाव्यम् - अनन्तकालवर्तित्वेन परिणामित्वेन चानन्तकालमाश्रित्य षड्द्रव्येष्वनन्तोत्पादनाश-स्थितयो भवन्ति एव । तथैव एकैकद्रव्ये एकैकसमयेऽप्यनन्तोत्पादादयो भवन्ति । तथाहि - एकद्रव्ये समकमनन्तपर्याया उत्पद्यन्ते, विनाशं विनोत्पादासंभवात् तदैवानन्तविनाशा अपि संभवन्ति तथा स्थितिरहितस्योत्पादस्याभावात्तदैवानन्तस्थितयोऽपि नियताः । एवमेकस्मिन्नेव समयेऽनन्तोत्पादादिसंभवादेकमेव द्रव्यमनन्तपर्याययुक्तं भवति ।।४१ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org