________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-३८-४२
२१७
विभागजन्योत्पादमनिच्छतां केपांचिदुत्पादार्थानभिज्ञत्वं दर्शयन्नाह -
दव्वंतरसंजोगाहि केचि दवियस्स बेंति उप्पायं ।
उप्पायत्थाऽकुसला विभागजायं ण इच्छंति ।।३८।। केचन वैशेषिकाद्याः द्रव्यान्तरसंयोगाद् द्रव्यस्योत्पादं ब्रुवते । उत्पादार्थाकुशलाप्टा उत्पादपदस्यार्थस्यानभिज्ञास्ते विभागजातमुत्पादं नेच्छन्ति न जानन्ति ।
इदं ज्ञेयम् - ‘अर्थान्तरगमनलक्षणविनाशस्य विभागजोत्पादस्य चासंभवात्, तद्द्वयाभावे स्थितेरप्यभावाद् द्रव्यस्य त्रैकाल्यमसंभवी ति मन्यमाना वैशेषिकाद्या उत्पादस्य वास्तविकस्वरूपं नैव जानन्ति । ते च केवलं द्रव्यान्तरसंयोगादेव द्रव्योत्पत्तिं मन्यन्ते, न तु विभागजातोत्पत्तिम् । तस्मात् ते उत्पादार्थानभिज्ञा एव ।।३८ ।। येन कारणेन ते वैशेषिकाद्या उत्पादार्थानभिज्ञास्तत् दर्शयन्नाह -
अणु दुअणुएहिं दब्वे आरद्धे 'तिअणुयं' ति ववएसो ।
तत्तो य पुण विभत्तो अणु त्ति जाओ अणू होइ ।।३९।। यथा द्वाभ्यामणुभ्यामारब्धे द्रव्ये कार्यद्रव्ये अणुरिति व्यपदेशो द्वयणुक इति भावः, त्रिभिईयणुकैरारब्धे कार्यद्रव्ये त्र्यणुकमिति व्यपदेशो भवति । पुनः ततष्टा तस्मादेकपरिमाणाद् द्रव्याद् विभक्तः विभागात्मकत्वेनोत्पन्नः अणुरिति अणुपरिमाण इति कृत्वा अणुर्जातः परमाणुरुत्पन्न इति व्यपदेशो भवति ।
इदं भाव्यम् - यथा परमाणुद्वयारब्धस्य द्वयणुकस्याणुपरिमाणत्वाद् द्वाभ्यामणुभ्यामारब्धे द्रव्ये 'अणुरिति विवक्षा संभवति, व्यणुकत्रयगतबहुत्वसङ्ख्यया महत्परिमाणस्योत्पन्नत्वात् त्रिभियणुकैरारब्धे द्रव्ये ‘त्र्यणुक' इति व्यपदेशो भवति । तथैव महत्परिमाणवतो द्रव्याद् विभक्ते उत्पन्नद्रव्ये अयमणुर्जात इति व्यवहारोऽपि कथं न घटते ? ततो विभागजः उत्पादोऽपि संभवत्येव ।।३९ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org