________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-३५-३७
२१३
इदं ज्ञेयम् - अस्यैवार्थोऽङ्गुलिद्रव्यद्वारेण ज्ञायते । तथाहि-यदैवाङ्गुलिद्रव्यमाकुच्यते न तदैव प्रसार्यते, यदैव च तत् प्रसार्यते न तदैवाकुच्यते, किन्तु भिन्नकाल एव, अत आकुञ्चनप्रसारणपर्याययोस्तद्विशिष्टद्रव्यस्य च भिन्नकालत्वमत एव भिन्नत्वम् । अधुनाऽभिन्नकालतामभिन्नरूपतां च दर्शयन्नाह - आकुञ्चनात्मकपूर्वपर्यायनाश-प्रसारणात्मकोत्तरपर्यायोत्पत्तिअङ्गलिद्रव्यस्थितीनामभिन्नकालता प्रतीयते, एकस्मिन्नेव समये अङ्गलिद्रव्यस्य विद्यमानत्वे सति तस्य पूर्वपर्यायनाशोत्तरपर्यापोत्पत्तिर्ज्ञायते, न तत्र समयभेदः, अत एवाभिन्नरूपत्वम् ।।३६।।
यथोत्पादादीनां प्रत्येकमेकैकं रूपं त्र्यात्मकं तथा भूत-वर्त्तमान-भविष्यद्भिरप्येकैकं रूपं त्रिकालतामाप्नोतीत्येतदेवाह -
उप्पज्जमाणकालं उप्पण्णं ति विगयं विगच्छंतं ।
दवियं पण्णवयंतो तिकालविसयं विसेसेइ ।।३७।। उत्पद्यमानकालमित्यनेनाद्यसमयादारभ्योत्पत्त्यन्तसमयं यावदुत्पद्यमानत्वस्येष्टत्वाद्वर्तमानभविष्यकालविषयं द्रव्यमुक्तम्, उत्पन्नमित्यनेन त्वतीतकालविषयम्, एवं विगतं विगच्छदित्यनेनापीति, ततप्टोत्पद्यमानादि प्रज्ञापयन् स भगवान् द्रव्यं त्रिकालविषयं यथा भवति तथा विशेषयति ।
इदं कथनीयम् - यद् द्रव्यं यदैवोत्पद्यते तत् तदैवोत्पन्नमुत्पत्स्यते च, यद् यदैवोत्पन्नं तत् तदैवोत्पद्यते उत्पत्स्यते च, यद् यदैवोत्पत्स्यते तद् तदैवोत्पद्यते उत्पन्नं च । तथा यद् द्रव्यं यदैवोत्पन्नं तद् तदैव विगतं विगच्छद् विगमिष्यञ्च, यद् यदैवोत्पद्यते तद् तदैव विगतं विगच्छद् विगमिष्यञ्च, यद् यदैवोत्पत्स्यते तद् तदैव विगतं विगच्छद् विगमिष्यञ्च । एवं विगमोऽपि त्रिकाल उत्पादादिना दर्शनीयः, तथा स्थित्याऽपि त्रिकाल एव सप्रपञ्चः प्रदर्शनीयः । एवं स्थितिरपि उत्पाद-विनाशाभ्यां सप्रपञ्चाभ्यामेकैकाभ्यां त्रिकाला प्रदर्शनीयेति द्रव्यमन्योन्यात्मकतथाभूतकालत्रयात्मकोत्पाद-विनाश-स्थित्यात्मकं ज्ञेयम् ।।३७ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org