________________
२१२
संमतितर्कप्रकरणे, काण्ड-३, गाथा-३५-३६
उत्पाद-विनाश-स्थितीनां भिन्नाभिन्नकालत्वस्यार्थान्तरानर्थान्तरत्वस्य कथनमाह -
तिण्णि वि उप्पायाई अभिण्णकाला य भिण्णकाला य ।
अत्यंतरं अणत्थंतरं च दवियाहि णायव्वा ।।३५।। त्रयोऽप्युत्पादादय उत्पाद-विनाश-स्थितिस्वभावाः परस्परतो द्रव्येष्वभिन्नकालाप्टा समकालीना भिन्नकालाष्टा विभिन्नकालीनाप्टा । तथा ते चोत्पादादयो द्रव्यादर्थान्तरं भिन्नरूपा अनर्थान्तरं चाभिन्नरूपाप्टा ज्ञातव्याः ।
इदं ज्ञेयम् - वस्तुमात्रं द्रव्य-पर्यायोभयरूपम् । पर्यायेषु केचित् क्रमवर्तिनः, तथा केचित् सहवर्तिनः । क्रमवर्त्तिद्विपर्यायानाश्रित्योत्पादविनाशौ समकालिनौ, पूर्वपर्यायविनाशकालस्यैवात्तरपर्यायोत्पादकालत्वात् । किन्तु क्रमवत्यैकपर्यायानाश्रित्योत्पादविनाशौ भिन्नकालीनौ तस्योत्पादकालविनाशकालयोभिन्नत्वात । तथाऽनेकपर्यायानङ्गीकृत्योत्पादयस्त्रयोऽपि समकालीनाः, पूर्वपर्यायनिवृत्ति-उत्तरपर्यायोत्पत्तिसामान्यरूपस्थितीनामेककालीनत्वात् । तथा चैकपर्यायं स्वीकृत्योत्पादादयो भिन्नकालीनाः, क्रमवर्त्तित्वात् ।
तथोत्पादादयस्त्रयोऽपि धर्मिणो धर्मरूपत्वाद्भिन्नाप्टाभिन्नाटा । यतो द्रव्यस्यांशभूतास्ततो भिन्नाः, तथा अंशभूतत्वेऽपि धर्मीरूपास्ततोऽभिन्नाः - न तेषामस्तित्वं धर्मिणो भिन्नम् ।।३५ ।। अस्मिन्नेवार्थे प्रत्यक्षसिद्धोदाहरणमाह -
जो आउंचणकालो सो चेव पसारियस्स वि ण जुत्तो ।
तेसिं पुण पडिवत्ती-विगमे कालंतरं णत्थि ।।३६।। अङ्गुल्यादेव्यस्य य आकुञ्चनकालः संकोचनकाल: स एव प्रसारितस्यापि अङ्गुलेर्न युक्तः, आकुञ्चन-प्रसारणयोर्भिन्नकालतया प्रतीतेर्तयोर्भेदः । तयोः प्रसारणा-ऽऽकुञ्चनयोः पुनः प्रतिपत्तिविगमे प्रसारणात्मकोत्तरपर्यायस्योत्पत्तौ आकुञ्चनात्मकपूर्वपर्यायस्य नाशे च कालान्तरं भिन्नकालत्व-मङ्गुलिद्रव्यस्य नास्ति । अत उत्पादादीनां त्रयानामभिन्नकालता ज्ञायते ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org