________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-३२-३४
२०७
स्वाभाविकोऽप्युत्पादो द्विविधः । एकः समुदयकृतो वा जीवप्रयत्नमन्तरेण विस्रसा-. परिणतपुद्गलसमुदायेन जनितोऽभ्रादिवत्, द्वितीय ऐकत्विको वाऽनुत्पादिताऽमूर्तिमद्द्रव्यारब्ध आकाशादिद्रव्यवद्भवेत् । आकाशादीनामाकाश-धर्माऽधर्मास्तिकायादीनां त्रयाणां द्रव्याणां परप्रत्ययः परद्रव्यनिमित्त उत्पादोऽनियमादनेकान्ताद्भवेत् ।
इदं भाव्यम् - विस्रसाजन्योत्पादो द्विप्रकारकः (१) समुदायकृतः - अभ्रादीनामुत्पादरूपः, असौ च जीवप्रयत्नमन्तरेणैव जनितः । (२) ऐकत्विकः - स्वतन्त्रैकैकद्रव्यरूपे आकाशादित्रितये भवदुत्पादः, तस्य च स्कन्धाश्रितत्वस्याभावात् परिशुद्ध इति गीयते । तथाऽऽकाशादिपु त्रिपु द्रव्येषु भवतोऽवगाहन-गति-स्थितिरूपक्रियोत्पादस्यावगाहक-गन्तृ स्थातृघटादिपरद्रव्यनिमित्तत्वेन क्वचिद्भवति क्वचिञ्च न भवति ।।३३ ।। उत्पादवद्विगमोऽपि तथाविध एवेति दर्शयन्नाह -
विगमस्स वि एस विही समुदयजणियम्मि सो उ दुवियप्पो ।
समुदयविभागमेत्तं अत्यंतरभावगमणं च ।।३४।। विगमस्यापि नाशस्यापि एष विधिः प्रयोगजनितष्टा विस्त्रसा चेति द्वौ भेद्वौ । द्वयोरपि भेदयोः समुदयजनिते यो विनाशः स तु द्विविकल्पो द्विप्रकारकः । एकः समुदयविभागमात्रं यथा पटादेः कार्यस्य तत्कारणपृथक्करणम्, द्वितीयस्त्वर्थान्तरभावगमनं च यथा मृत्पिण्डस्य घटार्थान्तरभावः ।
अयं गम्यम् - उत्पादवद्विनाशोऽपि द्विविधः (१) प्रयोगजनितः (२) स्वाभाविकः । उभयत्रापि समुदायजनितविनाशो द्विभेदः (१) समुदायविभागमात्रम्, (२) अर्थान्तरभावगमनं च । आद्यः कार्यस्य कारणानां पृथक्करणरूपः - यथा पटकार्यस्य तत्कारणपृथक्करणे तन्तुविभागमात्रम्, द्वितीयोऽर्थान्तरभावोत्पादरूपः - यथा मृत्पिण्डस्य घटार्थान्तरभावोत्पादरूपो विनाशः । आद्ये स्वरूपनाशरूपविनाशः, अपरे तु तज्जन्यान्यस्वरूपोत्पादरूपविनाश इति भावार्थः ।।३४ ।।
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org