________________
२०२
संमतितर्कप्रकरणे, काण्ड-३, गाथा-२९-३१
इदं गम्यम् - अनेकान्तस्य व्यापकतां व्यवहारेण ज्ञापयन् ग्रन्थकार आह - अस्ति किञ्चिदपि जीवद्रव्यं गतिमत्, तथापि तद् द्रव्यं प्रतिनियतदिगाश्रित्यैव गतिमन्न तु सर्वदिगाश्रित्य, अन्यथाऽभिप्रेतदेशप्राप्तिवदनभिप्रेतदेशप्राप्तिरपि संभवेत् । तत एकमेव द्रव्यमपेक्षाविशेषेण गतिमदपेक्षाविशेषेण चागतिमदपीत्यनेकान्तेनैव ज्ञायते ।।२९ ।। दहनादिषु गुणनिवर्तितसंज्ञाष्वप्यनेकान्तव्यापकतां वर्णयन्नाह -
गुणणिव्वत्तियसण्णा एवं दहणादओ वि दट्ठव्वा ।
जं तु जहा पडिसिद्धं दब्वमदव्वं तहा होइ ।।३०।। गुणनिवर्तितसंज्ञा गुणेन दहनादिना निर्वर्तितोत्पादिता संज्ञाऽभिधानं येषां ते दहनादयोऽपि दहन-पवनादयोऽप्येवमनेकान्तात्मका एव द्रष्टव्याः कथञ्चिद् दहनादहनोभयात्मका अभ्युपगन्तव्याः । यद् द्रव्यं तु यथा दहनरूपतया प्रतिषिद्धं तद् द्रव्यं तथा भजनाप्रकारेण अद्रव्यमदहनादिरूपं भवति - स्याद् दहनः स्याददहन इति भावः ।
इदं निरूप्यम् - दहन-पवन-पचनादिगुणनिष्पन्नसंज्ञाष्वप्यनेकान्तो युज्यते । यथा - दाहपरिणामयोग्यतृणाद्यपेक्षया दहनो दाहपरिणामायोग्यऽऽकाशादीनाश्रित्य त्वदहनः, पाकपरिणामयोग्यौदनाद्यपेक्षया पचनः, तत्परिणामायोग्यापेक्षया चातथारूप इति सर्वत्र योज्यम् ।
यथा दहने तथाऽदहनेऽप्यनेकान्तः । तथाहि - यदुदकद्रव्यमदहनरूपं तदपि न सर्वथाऽदहनरूपम्, अदहनरुपपृथिव्यादिभिन्नत्वात् । अन्यथा दहनव्यतिरिक्तानामेकत्वप्रसङ्ग इत्यनेकान्त एव सर्वत्र विजयते ।।३०।। जीवस्य कथञ्चिद् जीवाजीवोभयात्मकत्वादनेकान्तात्मकत्वं घटयन्नाह -
कुंभो ण जीवदवियं जीवो वि ण होइ कुंभदवियं ति ।
तम्हा दो वि अदवियं अण्णोण्णविसेसिया होंति ।।३१।। कुम्भो घटो न जीवद्रव्यं, जीवोऽपि न कुम्भद्रव्यं भवतीति । तस्माद् द्वावपि जीवकुम्भावन्योन्यविशेषितौ परस्पराभावात्मकावद्रव्यं भवतः ।
___ Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org