________________
१९८
संमतितर्कप्रकरणे, काण्ड-३, गाथा-२७-२८
ज्ञापनीयः । एवंप्रकारेण भजनाऽनेकान्तः, नियमोऽपि अपिः समुच्चयार्थः - ततः नियमष्टा एकान्तष्टा समयाविरोधेनानेकान्तैकान्तप्रतिपादकसिद्धान्ताविरोधेन भवति संभवति ।
इदं संभाव्यम् - कस्यचिदपि वस्तुनो यथार्थस्वरूपं ज्ञातुं यथाऽनेकान्तसिद्धान्त उपयुज्यते, तेन च वस्तुमात्रं भिन्नाभिन्नम्, नित्यानित्यमित्यादि ज्ञायते । तथैवानेकान्तस्यापि स्वरूपमनेकान्तेनैव यथार्थं ज्ञायते, ततोऽनेकान्तो नयापेक्षयैकान्तरूपः प्रमाणापेक्षया चानेकान्तरूपो ज्ञायते । एवमेकान्तोऽनेकान्तप्टा सिद्धान्तस्याविरोधेन संभवति ।।२७।। साम्प्रतं ‘षड् जीवनिकायाः' इत्यत्राप्यनेकान्तस्य व्यापकत्वं व्यवस्थापयन्नाह -
णियमेण सद्दहंतो छक्काए भावओ न सद्दहइ ।
हंदी अपज्जेसु वि सद्दहणा होइ अविभत्ता ।।२८।। षटकायान् नियमेनावधारणेन श्रद्दधानः ‘पडेवैते जीवाः कायाप्टो'त्येवं श्रद्धां कुर्वन् पुरुषो भावतः परमार्थतो न श्रद्धते, जीवराश्यपेक्षया तेपामेकत्वस्य कायानामपि पुद्गलतयैकत्वस्याऽश्रद्धानात् । हन्दि यतोऽपर्यायेष्वेकादिप्रकाररहितेषु पट्सु कायेपु श्रद्धाऽप्यविभक्ताऽसंपूर्णा भवति द्रव्यश्रद्धापर्यवसन्ना भवतीति यावत् ।
इदं वाच्यम् - विविधदृष्टिभिर्जीवस्वरूपस्य निरूपणेनैव स्याद्वादसिद्धान्तः संगच्छते । तेन “एगविह-दुविह-तिविहा...” इत्यादिप्ररूपणयैव श्रद्धा भावरूपा भवति । तदस्वीकृत्य किञ्चिदेकप्रकारेणैव जीवस्वरूपस्य श्रद्धां यः कोऽपि करोति स न भावसम्यग्दृष्टिरपि तु द्रव्यसम्यग्दृष्टिरेव स्यात्, यतो यथा पटकायानाश्रित्य जीवाः पड्विधास्तथैव चेतनामाश्रित्य एकविधः, बस-स्थावरानाश्रित्य द्विविध इत्याद्यपि घटते, अन्यथा जीवस्य यथार्थस्वरूपश्रद्धाया अभावात् ।।२८ ।। અવ. અનેકાંતની વ્યાપકતા જણાવતાં કહે છે – गाथा : भयणा वि हु भइयव्वा जइ भयणा भयइ सव्वदव्वाइं ।
एवं भयणा णियमो वि होइ समयाविरोहेण ।।२७।। छाया : भजनाऽपि हु भजनीया यथा भजना भजते सर्वद्रव्याणि ।
एवं भजना नियमोऽपि भवति समयाविरोधेन ।।२७।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org