________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-९-१५
१७७
गुणशब्दं विनापि पर्यायविशेषसंख्यानं पर्यायविशेषसंख्यावाचकं सिध्यति, न तु गुणास्तिकनयप्रतिपादकत्वेन । यतः तावद्गुण इति नवरं संख्यानशास्त्रधर्मो गुणशब्दस्यैतावताऽधिको न्यूनो वा भाव इति केवलं गणितशास्त्रधर्मवाचकः ।
अयं भावार्थः - गुणशब्दो व्यर्थको ज्ञायते, रूप-रसादिवाचकः पर्यायविशेषसंख्यावाचकप्टा । एकगुणकालः, द्विगुणकाल इत्यादिषु यो गुणशब्दः प्रयुक्तः सो न रूपादिवाचकत्वेन गुणास्तिकनयप्रतिपादकः किन्तु द्रव्यगतपर्यायविशेषसंख्यावाचकत्वेनैव सिद्ध्यति, यतस्तस्य गणितशास्त्रधर्मवचनत्वात् ।।१४।। अमुमेवार्थं दृष्टान्तद्वारेण दृढीकर्तुमाह -
जह दससु दसगुणम्मि य एगम्मि दसत्तणं समं चेव ।
अहियम्मि वि गुणसद्दे तहेव एयं पि दट्ठव्वं ।।१५।। यथा दशसु द्रव्येसु, दशगुणे दशगुणिते एकस्मिन् च द्रव्ये गुणशब्देऽधिकेऽपि गुणशब्दातिरेकेऽपि दशत्वं सममेव तथैव एतदपि न भिद्यते परमाणुरेकगुणकृष्णादिरिति, एकादिशब्दाधिकगुणशब्देनापि तदधिकार्थाप्रतिपादनादिति द्रष्टव्यम् । तथा च तेनापि नातिरिक्तगुणसिद्धिर्भवति ।
इदं वाच्यम् - यथा दशसु द्रव्येषु, दशगुणिते वा एकद्रव्ये गुणशब्दातिरेकेऽपि दशत्वं समानमेव, यत एकत्र धर्मिगतदशत्वसंख्या ज्ञायत अन्यत्र च धर्मिणः परिमाणस्य तारतम्यं दर्शयितुं 'गुण'शब्देन सह 'दश'शब्दः प्रयुक्तः । तथैव एकगुणकालो द्विगुणकाल इत्यादिष्वपि गुणशब्दस्य भिन्नत्वेऽपि द्रव्यधर्मरूपात् पर्यायशब्दाद् न भिन्नोऽर्थस्तस्य ।
ततो जैनशास्त्रेषु द्रव्यगताः सर्वधर्माः पर्यायशब्देनोक्ताः । ते पर्याया एव गुणशब्दस्यापि प्रतिपाद्याः । तस्माद् गुणाः पर्याया एव, पर्यायाप्टा द्रव्यरूपा एव भवति । ततो गुणानां द्रव्यरूपत्वेन द्रव्यगुणयोर्न भिन्नत्वं किन्त्वभिन्नत्वमेवेति प्रस्तुतचर्चया सिद्धम् ।।१५।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org