________________
१७६
संमतितर्कप्रकरणे, काण्ड-३, गाथा-९-१५
गुणपर्यायशब्दौ तुल्यार्थो । तथापि तुल्यार्थत्वेऽपि पर्याया गुणा इति न भण्यन्ते, यस्मात् पर्यायनयदेशना पर्यायनयद्वारेणैव भगवता देशना कृता, न तु गुणार्थिकनयद्वारेण ।
इदं नेयम् - व्युत्पत्तिनिमित्तमाश्रित्य गुण-पर्यायशब्दौ समानार्थौ । तथापि गुणशब्दः पर्यायविशेषवाचको न तु पर्यायसामान्यवाचकः । न च गुणशब्देन पर्यायसामान्यमेव ग्राह्यम्, यतो भगवता पर्यायनयद्वारैव देशना कृता, न तु गुणार्थिकनयद्वारा । अतो व्युत्पत्तिनिमित्तसमानत्वेऽपि गुणपर्यायशब्दयोः सामान्यविशेषभावापन्नप्रवृत्तिनिमित्तभेदान्न पर्यायत्वमिति भावः ।।१२।।
भगवतो देशनायामर्थाद् गुणार्थिकनयोऽपि दृश्यते, ततो कथं गुणाभाव इति शङ्कां निरूपयन्नाह -
जंपन्ति अत्थि समये एगगुणो दसगुणो अणंतगुणो ।
रूवाई परिणामो भण्णइ तम्हा गुणविसेसो ।।१३।। द्रव्य-गुणभिन्नत्ववादिनो जल्पन्ति प्ररूपयन्ति - समये सिद्धान्ते ‘एगगुणकालए दुगुणकालए' इत्यादिवचनाद् रूपादिमाश्रित्य एगगुणो दसगुणोऽनन्तगुण इत्यादि व्यपदेशः अस्ति उपलभ्यते, तस्माद् रूपादिः परिणामो गुणविशेष इति भण्यते । अतो गुणार्थिकनयोऽपि भगवतोपदिष्टः, ततः कथं गुणाभाव उच्यते ?
इदं पूर्वपक्षकथनम् - अत्र पूर्वपक्षी आह - भगवता द्वाभ्यां नयाभ्यामेव देशना दत्तेति न, शास्त्रेषु गुणार्थिकनयं मनसिकृत्य ‘एगगुणकालए दुगुणकालए' इत्यादिनामपि वचनानां समुपलम्भात् । ततो भगवता गुणार्थिकनयोऽपि प्ररूपितस्तस्माद् रूपादिपरिणामो गुणविशेष एव, तर्हि कथं गुणाभाव उच्यते ? ।।१३ ।। अत्र सिद्धान्तवादी प्राह -
गुणसद्दमंतरेणावि तं तु पज्जवविसेससंखाणं ।
सिज्झइ णवरं संखाणसत्थधम्मो 'तइगुणो'त्ति ।।१४।। तत्तु ‘एकगुणकालः' इत्यादिकं प्रागुक्तं वचनं गुणशब्दमन्तरेणापि रूपाद्यभिधायक
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org