________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-९-१५
पुनर्भगवता द्रव्यार्थिक-पर्यायार्थिको द्वावेव नयौ मूलनयौ नियतौ नियमितौ । एतस्माच्च पर्यायादधिके गुणविशेषे ग्राह्ये सति गुणास्तिकनयोऽपि तद्ग्राहकगुणार्थियो युज्यमानको घटेत् ।
इदं भाव्यम्-शास्त्रेषु परमात्मना द्रव्यार्थिक- पर्यायार्थिको द्वावेव मूलनयौ निष्टिताविति ज्ञायते, द्रव्यपर्यायरूपग्राह्यद्वित्वात् । यदि गुणविशेषरूपं तृतीयं ग्राह्यं स्यात्तर्हि तद्ग्राहक - भगवता कथितः स्यात् । किञ्च यदि गुणरूपो ग्राह्यो भवेत्तद्ग्राहकनयस्य चाभावः स्यात्तर्हि नयानामव्यापकत्वं भवेदर्हतो वा तदपरिज्ञानं प्रसज्येत । तेन पर्यायाद्भिन्नो गुणो न संभवेत् ।। १० ।।
किन
"
भगवता तृतीयगुणार्थिकनयो नोक्त इति दर्शयन्नाह
जं च पुण अरिहया तेसु तेसु सुत्तेसु गोयमाईणं । पज्जवसण्णा णियया वागरिया तेण पज्जाया । । ११ ।।
यच्च यस्माच्च पुनरर्हता भगवता तेषु तेषु सूत्रेषु “वण्णपज्जेहिं, गंधपज्जेहिं...' भगवत्यादिसूत्रकथनैर्वर्ण- गन्धादिषु पर्यायसंज्ञा नियता नियमिताः, गौतमादिभ्यो गणधरेभ्यो व्याकृताः कथितास्तेन तस्माद् वर्णादयः पर्याया एव न गुणा इत्यभिप्रायः ।
१७५
ܕܕ
अयं तात्पर्यः - गुणरूपेण प्रसिद्धानामपि वर्ण- गन्धादीनां पर्यायसंज्ञा भगवता भगवतीसूत्राद्यागमग्रन्थेषु निष्टिता गौतमादिभ्यष्टा गणधरेभ्यः कथिताः । तस्माद्वर्णस्पर्शादयो पर्याया एव न गुणा इति तात्पर्यः ।।११।।
-रस-गन्ध
अथ तत्र पर्यायशब्देन गुण एवोक्तः किं न स्यादित्यादिशङ्कायामाह -
परिगमणं पज्जाओ अणेगकरणं गुण त्ति तुलत्था I तह वि ण 'गुण'त्ति भण्णइ पज्जवणयदेसणा जम्हा ।।१२।।
Jain Education International 2010_02
परि समन्तात् सहभाविभिः क्रमभाविभिष्टा भेदैः परिणतस्य वस्तुनो गमनं बोधः, 'ये गत्यर्थास्ते ज्ञानार्था' इति वचनाद् स पर्यायो विषयविषयिणोरभेदात्, अनेकरूपतया वस्तुनः करणं ‘करोतेर्ज्ञानार्थत्वाद्' ज्ञानं विषयविषयिणोरभेदादेव गुणः, इति व्युत्पत्तिनिमित्तमपेक्ष्य
For Private & Personal Use Only
www.jainelibrary.org