________________
संमतितर्कप्रकरणे, काण्ड - ३, गाथा- ७
प्रकारान्तरेणाप्यात्मनोऽनेकान्तरूपतां दर्शयन्नाह -
कोवं उप्पायंतो पुरिसो जीवस्स कारओ होइ । ततो विभवो परम्मि सयमेव भइयव्वो ।।७।।
कोपमुपनयन् क्रोधं कुर्वन् पुरुषो मनुष्यो जीवस्य स्वात्मनः परभवसर्जने कारकः कर्ता भवति । अतः क्रोधकर्ता पुरुषस्ततः परभवजीवाद् विभजनीयो भिन्नो व्यवस्थापनीयः, कार्य-कारणयोः कथंचिद्भेदात् । न चासौ ततो भिन्न एव यतः परस्मिन् भवे स्वयमेव पुरुषो भजनीय आत्मरूपतया अभेदेन व्यवस्थाप्य इति भावः ।
यद्वा अन्यजीवे क्रोधमुत्पादयन् पुरुषोऽन्यजीवस्य कोपस्य कारको भवति । ततोऽसौ कोपकारकत्वेन विभजनीयः, कोपपरिणतियोग्ये जीवे कारकः, अन्यत्राकारक इति ।
अयं वाच्यार्थ :- मृत्पिण्डाद् घटो भवति, ततो मृत्पिण्डः कारणं घटष्टा कार्यः । कार्यकारणयोः कथंचिद्भेदाद् यथा मृत्पिण्डाद् घटो भिन्नः तथैव क्रोधं कुर्वन् पूर्वभवजीव आत्मनः परभवकर्ता भवति, ततो पूर्वभवजीवः कारणं परभवजीवष्टा कार्यः । ततो द्वावपि भिन्नौ, अन्यथा कार्य-कारणभावाभावप्रसङ्गः । न चासौ ततो भिन्न एव किन्त्वभिन्नरूपोऽपि, यतो घटाद्याकारपरिणतमृद्द्रव्यवद् य आत्मा पूर्वभवेऽस्ति सैव आत्मा परभवेऽस्ति । अतो भिन्नाभिन्नरूप आत्माऽनेकान्तरूपः ।
अथवा अन्यजीवे क्रोधमुत्पादयन् पुरुषोऽन्यजीवानां कोपस्य कर्त्ता भवति । अन्यजीवाष्टा द्विविधा: - क्रोधपरिणतियोग्याः क्रोधपरिणत्ययोग्याष्टा । क्रोधपरिणतियोग्यानाश्रित्य कोपकारकत्वेनायं पुरुषः कारकः, अन्यत्राकारक इति विभजनीयः ।।७।।
१७१
અવ. જેમ વસ્તુના ત્રૈકાલિક પર્યાયોમાં પરસ્પર ભેદાભેદ છે તેમ એક જ પુરુષમાં પણ ભેદાભેદની વ્યવસ્થા જણાવે છે -
गाथा :
छाया :
Jain Education International 2010_02
कोवं उप्पायंतो पुरिसो जीवस्स कारओ होइ । तत्तो विभयव्वो परम्मि सयमेव भइयव्वो ।।७।।
कोपम् उत्पादयन् पुरुषो जीवस्य कारको भवति । ततो विभजनीयः परस्मिन् स्वयमेव भजनीयः ।।७।।
For Private & Personal Use Only
www.jainelibrary.org