________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-६
वर्तमानपर्यायरूपस्वपर्यायेण पदार्थस्यास्तित्वनियमे एकान्तवादापत्तिं निरसन्नाह पझुप्पणम्मि विपज्जयम्मि भयणागई पडइ दव्वं । जं एगगुणाईया अणंतकप्पा गुणविसेसा ।।६।।
प्रत्युत्पन्नेऽपि पर्याये वर्तमानपर्यायेऽपि घटादिद्रव्यं भजनागतिमस्ति - नास्त्युभयरूपां विकल्पपद्धतिं पतति आसादयति, यद् यत एकगुणादिका एकगुणकृष्णत्व-द्विगुणकृष्णत्वादयोऽनन्तकल्पा अनन्ताः प्रकाराः सन्ति येषां तेऽनन्तप्रकारा गुणविशेषा गुणस्वरूपाः सन्ति, तेषां च गुणविशेषाणां मध्ये केनचिद्गुणविशेषेण युक्तं तद् द्रव्यं भवति ।
इदं विचार्यम् - वर्त्तमानपर्यायेऽपि विवक्षितद्रव्यं स्वरूपेणास्ति पररूपेण च नास्ति तथा यदाऽधोरूपेणास्ति तदा मध्योर्ध्वादिरूपेण नास्ति । एवंप्रकारेण किञ्चिदपि द्रव्यं वर्त्तमानसमयेऽप्यस्ति-नास्त्युभयात्मकमनेकान्तरूपं भवति ।
१६९
तथाहि - यथा पूर्वोत्तरकालीनकुण्डलपरिणामरूपार्थपर्यायाभ्यां वर्त्तमानकालीनकुण्डलपरिणामरूपार्थपर्यायं भिन्नं, समयभेदे परिणामभेदात्, तथा समकालीनौऽपि द्वौ सुवर्णकुण्डलपर्यायौ भिन्नौ, गुणविशेषानामनन्तत्वात् । एकद्रव्ये यद्गुणोऽस्ति सोऽपि द्रव्यान्तरमपेक्ष्य हीनं वाधिकं भवेत्, हीनाधिकत्वं च संख्येयादिभागगुणवृद्धि - हानिभ्यां षट्स्थानरूपम् । ततो गुणविशेषद्वारेण वर्त्तमानपर्याययुक्तं द्रव्यमस्तिनास्त्युभयरूपं भवति ।
किञ्च यथा पुद्गलद्रव्यस्य तादृग्भूतापरपुद्गलद्रव्यापेक्षया अनेकान्तरूपता युक्ता तथैव द्रव्य-कषाय-योगोपयोग-ज्ञान-दर्शन- चारित्र-वीर्यप्रभेदात्मकस्यात्मपर्यायस्यापि तत्तद्ग्राह्यार्थापेक्षयाऽनेकान्तरूपता घटते । तथा च ज्ञानादिप्रभेदात्मकत्वादात्मनः पुद्गलवदनेकान्तरूपता । भगवतीसूत्रादौ प्रतिपादितैव ।। ६ ।।
અવ. વર્તમાનકાળમાં દ્રવ્યમાં વર્તમાનપર્યાયનું જ એકાંતથી અસ્તિત્વ માનતાં આવતી એકાંતવાદની આપત્તિનું નિરાકરણ કરતાં જણાવે છે
गाथा :
Jain Education International 2010_02
पच्चुप्पण्णम्मि वि पज्जयम्मि भयणागइं पडइ दव्वं । कप्पा गुणविसेसा ॥ ६॥
गगुणाईया
For Private & Personal Use Only
www.jainelibrary.org