________________
१६६
संमतितर्कप्रकरणे, काण्ड-३, गाथा-५
ननु घटादेः पदार्थस्य कैः पर्यायैरस्तित्वं नास्तित्वं वा ? इति कथयन्नाह -
परपज्जवेहिं असरिसगमेहिं णियमेण णिञ्चमवि नत्थि ।
सरिसेहिं पि वंजणओ अत्थि ण पुणऽत्थपज्जाए ।।५।। घटादिद्रव्यं विसदृशगमैर्विलक्षणबुद्धिजनकज्ञानग्राद्यैः परपर्यायैः वर्तमानव्यतिरिक्तभूतभविष्यत्पर्यायैर्नियमेन नित्यमपि नास्ति । सदृशैरपि समानबुद्धिजनकज्ञानग्राद्यैः पर्यायैः व्यञ्जनतः कालत्रयानुगतैर्व्यञ्जनपर्यायैः सद्-द्रव्यत्व-पृथिवीत्वादिसामान्यधर्मात्मकैः शब्दप्रतिपाद्यविशेषधर्मात्मकैप्टास्ति, न पुनरर्थपर्यायेर्नैव ऋजुसूत्रनयानुमतार्थपर्यायैः ।
अथवा अन्यद्रव्यगतपर्यायाः परपर्यायाः, ते च सदृशासदृशतया द्विप्रकाराः । विसदृशैः परपर्यायः विवक्षितघटादिद्रव्यं नियमेन नित्यमपि नास्ति, तथा सदृशेष्वपि परपर्यायेषु सामान्यधर्मविशेषधर्मात्मकव्यञ्जनपर्यायैरस्ति, पुनरर्थपर्यायैर्नास्ति ।
इदं ज्ञेयम् - विवक्षितद्रव्यमाश्रित्य वर्तमानभिन्नभूत-भाविपर्यायाः परपर्यायाः । ते च सदृशासदृशतया द्विप्रकाराः । तत्रासदृशपर्यायैर्विवक्षितघटादिद्रव्यं नित्यं नास्ति, अन्यथा तयोरैक्यप्रसङ्गः । सदृशपर्यायेष्वपि त्रिकालानुगतैर्व्यञ्जनपर्यायैर्घटादिद्रव्यमस्ति, तेषां शब्दवाच्यत्वात् । तद्व्यञ्जनपर्याया अपि सामान्यधर्मात्मका विशेषधर्मात्मकाष्टा । तत्र सामान्यधर्माः सद्-द्रव्यपृथिवीत्वादिरूपास्तथा विशेषधर्मा घटत्वादिरूपाः शब्दप्रतिपाद्या ज्ञेयाः । किन्त्वर्थपर्यायैविवक्षितघटादिद्रव्यं नास्त्येव, परस्परव्यावृत्तवस्तुस्वलक्षणग्राहकर्जुसूत्रनयाभिमतार्थपर्यायाणां प्रतिक्षणभिन्नरूपाणां शब्दाऽवाच्यत्वात् ।
अस्य चार्थस्य पूर्वगाथायामुक्तप्रायत्वादेवंप्रकारेणार्थः करणीयः - विवक्षितद्रव्याद्भिन्नद्रव्याणां पर्यायाः परपर्याया उच्यते । तेषु ये विसदृशपर्यायास्तैर्विवक्षितघटादि द्रव्यं नित्यं नास्ति तथा ये सदृशपर्यायास्तेभ्यो ये व्यञ्जनपर्यायास्तैरस्ति ये चार्थपर्यायास्तैर्नास्तीति भावः इत्युक्तं तर्कपञ्चाननटीकायाम् ।।५।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org