________________
१६२
संमतितर्कप्रकरणे, काण्ड-३, गाथा-३-४
पूर्वोक्तवचनमनाप्तस्य नैव भवति, तर्हि तत्कस्य भवति किं च स्वरूपमिति प्रतिपादयन्नाह
पञ्चप्पन्नं भावं विगय-भविस्सेहिं जं समण्णेइ ।
एयं पडुअवयणं दब्वंतरणिस्सियं जं च ।।३।। यद् वचनं वस्तुनः प्रत्युत्पन्नं भावं वर्तमानपर्यायं तस्यैव वस्तुनो विगत-भविष्यद्भ्यां भूत-भाविपर्यायाभ्यां समन्वेत्यभेदतया प्रतिपादयति, यञ्च वचनं द्रव्यान्तरनिसृतं द्रव्यं द्रव्यान्तरेण संबद्धमिति प्रतिपादयति, एतद् वचनं प्रतीत्यवचनमाप्तवचनं - सर्वज्ञवचनमित्यर्थः अन्यञ्च सर्वमनाप्तवचनमित्यर्थः ।
इदं कथनीयम - द्रव्यमानं नित्यानित्यम् । द्रव्यत्वेन नित्यत्वे सति पर्यायत्वेनानित्यम् । अत्र क्रमभाविनः पर्यायाः परिवर्तनशीलास्तथापि अन्वयिद्रव्यं तु तदेव । एवं यद् वचनं वस्तुनः प्रत्यक्षगोचरीभूतं वर्तमानपर्यायं तस्यैव वस्तुनोऽतीतानागतकालपर्यायैः सह द्रव्यत्वेनाभेदतया प्रतिपादयति, तद्वचनमाप्तवचनम्, तञ्च वस्तुनोऽनेकान्तस्वरूपं दर्शयति । तथा यद् वचनं द्रव्यं द्रव्यान्तरसम्बद्धमिति प्रतिपादयति तदप्याप्तवचनरूपम् ।
अत्र द्रव्यान्तरं त्रिप्रकारेण विवेच्यते । १-कारणद्रव्यमपेक्ष्य कार्यद्रव्यं द्रव्यान्तरं भिन्नकालवर्त्तित्वाद्, यथा परमाणुमपेक्ष्य व्यणुकादिः, इयं च व्याख्या वैशेषिकमतानुसारिणी, तथापि जैनशासनमान्या एव । २-यद्वा द्रव्यं द्रव्यत्वेन समाने सति पर्यायत्वेन भिन्नं तदपि द्रव्यान्तरं यथा स्वर्णहारात् स्वर्णमेखला । ३-यद्वा द्रव्यं पर्यायत्वेन समाने सति द्रव्यत्वेन भिन्नं तदपि द्रव्यान्तरं यथा मृद्धटात् सुवर्णघट: ।।३।। वर्तमानपर्यायस्यातीतानागतपर्यायैर्न सर्वथैकत्वमिति दर्शयन्नाह -
दव्वं जहा परिणयं तहेव अस्थि त्ति तम्मि समयम्मि ।
विगय-भविस्सेहि उ पज्जएहिं भयणा विभयणा वा ।।४।। यस्मिन् समये द्रव्यं यथा परिणतं चेतनद्रव्यं षट्कायरूपतयाऽचेतनद्रव्यं च घटादिरूपतया परिणतं तस्मिन् समये द्रव्यं तथैव तेनैव रूपेणास्तीति । विगत-भविष्यद्भिः पर्यायैस्तु वर्त्तमानपर्यायस्य कथंचित् भजनाऽभेदत्वम्, कथंचिद् विभजना भेदत्वम्, वाशब्दस्य कथंचिदर्थत्वात् ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org