________________
१५८
संमतितर्कप्रकरणे, काण्ड-३, गाथा-१-२
वचनविनिवेशो वचनप्रयोगो द्रव्यपरिणामं द्रव्यपरिणतिरूपं विशेषमन्यं द्रव्यादभिन्नं दर्शयति सामान्यं विशेषात्मकमिति ज्ञापयति । तथा विशेषपक्षे च 'घटः, पटः' इत्यादिविशेषे 'अस्ति' इत्यादिसत्तासामान्यस्य वचनविनिवेशो वचनप्रयोगस्तकं च विशेषं सामान्ये नियमयति विशेषः सामान्यात्मक एवेति दर्शयति ।
इदं वाच्यम्- प्रतिद्रव्यं सामान्यविशेषधर्मो प्रत्यक्षेण ज्ञायते । तौ चोभौ परस्परानुस्यूतौ । एकस्य सद्भावेऽपरस्यापि सद्भावस्तथैकस्यासद्भावेऽपरस्याप्यसद्भावः । यथा घटादिपर्यायाभावे मृद्रव्यं न संभवति तथा विशेषाभावे सामान्यमपि न, तेन सामान्यं विशेषात्मकमेव । यथा च मृद्रव्याभावे घटादिपर्याया न सम्भवन्ति तथा सामान्याभावे विशेषा अपि न, तेन विशेषं सामान्यात्मकमेव ।।।१।।
एकान्तेन विशेषव्यतिरिक्तं सामान्यं सामान्यरहिता वा विशेषा न संभवति, प्रत्यक्षादिप्रमाणविरोधादिति दर्शयन्नाह -
एगंतणिव्विसेसं एयंतविसेसियं च वयमाणो ।
दव्वस्स पज्जवे, पज्जवाहि दवियं णियत्तेइ ।।२।। एकान्तनिर्विशेषमेकान्तेन निर्गता विशेषा यस्मात् तदेकान्तनिर्विशेषं विशेषविरहितं सामान्यमित्यर्थः, एवं वदन वक्ताऽङ्गुल्यादिद्रव्यस्य ऋजुत्वादिपर्यायान् द्रव्यान्निवर्त्तयति, एकान्तविशेषितं च सामान्यरहितं विशेष वदन वक्ता पर्यायेभ्यो ऋजुत्वादिपर्यायेभ्यो द्रव्यमङ्गुल्यादि निवर्त्तयति ।
एतद् वाच्यम् - विशेषरहितं सामान्यमिति वदन वक्ता द्रव्यस्य पर्यायान् द्रव्याद् दूरीकरोति, तेन पर्यायात्मकस्य द्रव्यस्याप्यभावप्रसङ्गः। तेनैव प्रकारेण सामान्यरहितं विशेषमिति वदन वक्ता पर्यायेभ्यो द्रव्यं निवर्त्तयति, तेन द्रव्याभिन्नानां पर्यायाणामपि निवृत्तिप्रसक्तिः । यथा मृद्रव्यं पिण्ड-स्थास-कोशादिपर्यायात्मकं ते च पर्याया मृद्रव्यात्मकाः । मृत्पिण्डादिपर्यायैर्विनेदं मृद्रव्यमेवेति वदन वक्ता पिण्डादिपर्यायान्मृद्रव्याद् दूरीकरोति, तेन तत्पर्यायाविनाभाविनो द्रव्यस्याप्यभावप्रसङ्गः । तथा मृद्रव्यं विना तत्पर्यायानामेव स्वीकरणेन
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org