SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ दीक्षायुगप्रवर्त्तकभावाचार्यभगवदाचार्यदेव श्रीमद्विजयरामचन्द्र सूरीश्वराणामन्तेवासिनां वर्धमानादितपोलक्ष्मीगोविन्दाचार्यदेव श्रीमद्विजयगुणयशसूरीश्वराणां चरणाम्भोजालिबालदीक्षामार्गसंरक्षकप्रवचनप्रभावकाचार्यदेवविजयकीर्तियशसूरिप्रणीतपार्श्वप्रभाटीकासमे तार्किकशिरोमणिदर्शनप्रभावकशास्त्रप्रणेतृश्रीसिद्धसेनदिवाकरसूरिप्रणीते संमतितर्कप्रकरणे तृतीयकाण्डः । [प्रमेयकाण्डः ] आदिमं पृथिवीनाथं, पञ्चमं चक्रवर्त्तिनम् । चरमहरिभर्त्तारं, नमाम्यहं दिने दिने । । १ । । सर्ववाञ्छितदातारं, मोक्षफलप्रदायकम् । शंखेश्वरपुराधीशं पार्श्वनाथं जिनं स्तुवे || २ || 1 केवलेन यथा दृष्टाः, सद्द्रव्य-गुण- पर्यवाः । तथैव वर्णिता येन, तद्वीराय नमो नमः ।।३।। जयन्तु वादिनः सर्वे, वीरतत्त्वप्रसाधकाः । गामुका वीरमार्गस्य, वीरपट्टप्रद्योतकाः ।।४।। तन्मार्गगन्तुकामोऽह-मतत्त्वाद्भयभीतधीः । वृत्तिं तृतीयकाण्डस्य कुर्वे पार्श्वप्रसादतः ॥ ५ ॥ द्वितीयकाण्डे परस्परसापेक्षयोः प्रमेयग्राहकप्रमाणरूपयोर्दर्शनज्ञानयोः स्वरूपं प्रतिपाद्याधुना परस्परानुस्यूतयोः प्रमेयभूतयोः सामान्य-विशेषयोः स्वरूपं दर्शयन्नाह - सामण्णम्मि विसेसो विसेसपक्खे य वयणविणिवेसो | दव्वपरिणाममण्णं दाएइ तयं च णियमेइ ।। १ ।। सामान्ये ‘अस्ति’ इत्यादि सत्तादिसामान्ये विशेषो 'द्रव्यम्, घटः' इत्यादिविशेषस्य Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy