________________
संमतितर्कप्रकरणे, काण्ड-२, गाथा - ३७-४२
जह कोइ सट्ठिवरिसो तीसइवरिसो णराहिवो जाओ । उभयत्थ जायसद्दो वरिसविभागं विसेसेइ ||४०|| एवं जीवद्दव्वं अणाइणिहणमविसेसियं जम्हा । रायसरिसो उ केवलिपज्जाओ तस्स स विसेसो ।।४१।।
अथ पुनः यद्यपि एकान्तपक्षप्रतिषेधे द्रव्यपर्यायैकान्तभेदाभेदवादस्य प्रतिषेधे अयमर्थः पूर्वप्रयुक्तः पूर्वमेव “दव्वं पज्जवविउयं...” (का-१, गा - १२ ) इत्यादिना अनेकान्तव्यवस्थापनाद् योजितस्तथापि हेतुप्रतियोजनं केवलज्ञाने कथञ्चिद्भेदाभेदप्रसाधकस्य हेतोः साध्येन सह व्याप्तिप्रदर्शकविषयमिदमुदाहरणमिति दृष्टान्तं वक्ष्ये । तद्यथा
१४९
यथा कष्टिान्मनुष्यः षष्टिवर्षः सर्वायुष्कमाश्रित्य त्रिंशद्वर्षः सन्नराधिपो राजा जातः । उभयत्र मनुष्ये राज्ञि च जातशब्दः 'अयं मनुष्य जातः, अयं च राजा जातः' इत्येवं प्रयुक्तो जातशब्दो वर्षविभागमेव विशेषयति दर्शयति । दार्ष्टान्तिकयोजनायाह
एवं पूर्वोक्तदृष्टान्तवदविशेषितं विशेषविवक्षारहितं जीवद्रव्यमनादिनिधनमनाद्यनन्तम् । यतो यस्माद् राजसदृशस्तु राजत्वपर्यायसदृशः स केवलपर्यायः केवलीपर्यायस्तस्य तथाभूतजीवद्रव्यस्य विशेष: पर्यायोऽस्ति । तेन च रूपेण जीवद्रव्यसामान्यस्यापि कथंचिदुत्पत्तेः सामान्यमप्युत्पन्नं, प्राक्तनरूपस्य विगमात् सामान्यमपि तदभिन्नं कथंचिद् विगतं, जीवरूपतया चानादिनिधनत्वान्नित्यं द्रव्यं स्वीकरणीयम् ।
अयमत्र भावार्थ:- एकान्त भेदवादस्य एकान्ताभेदवादस्य च प्रतिषेधः प्रथमकाण्ड उक्तः एव । तथापि जीवकेवलयोरेकान्तभेदाभेदवादस्य खण्डनमपि करणीयमिति तन्निरूपणाय दृष्टान्तद्वारेण हेतोः साध्येन सह व्याप्तिं दर्शयितुमुदाहरणं कथयति । यथा, 'कष्टिान्मनुष्यः त्रिंशद् वर्षस्सन् राजा जातः । अत्र विवक्षितजीवः पूर्वकाले मनुष्य आसीत्, अधुनाऽपि स मनुष्योऽस्त्येव किन्तु तस्य अराजपर्यायो गतो राजपर्यायष्टाऽऽगतः, तस्माद् मनुष्यरूपेणाभिन्नः सन् पर्यायरूपेण भिन्नः । तथा 'जीवः केवली जातः ' अत्र जीवोऽनादिस्सन् केवीरूपेण जात इति विवक्ष्यते । जीवद्रव्यरूपेणाभिन्नः सन्नकेवलिकेवलिपर्यायाभ्यां भिन्नः । अतो द्रव्यपर्याययोः कथञ्चिद्भिन्नत्वं कथञ्चिदभिन्नत्वं च ज्ञायते । ।३९-४०-४१ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org