________________
संमतितर्कप्रकरणे, काण्ड-२, गाथा-३७-४२
जीवकेवलयोरेकत्वमाश्रित्य जीवस्योत्पादविनाशाभ्यां केवलस्य तौ भवतः, किन्तु स्वरूपलक्षणाभ्यां जीव-केवलयोर्भेदे सत्यपि कथं तर्योरेकत्वमित्याशङ्कां द्वाभ्यां गाथाभ्यां निरूपयन्नाह -
१४८
जीवो अणाइणिहणो केवलणाणं तु साइयमणंतं । इअ थोरम्मि विसेसे कह जीवो केवलं होइ ।। ३७ ।। तम्हा अण्णो जीवो अण्णे णाणाइपज्जवा तस्स । उवसमियाईलक्खणविसेसओ केइ इच्छन्ति ।। ३८ ।।
जीव आत्मा अनादिनिधनोऽनाद्यनन्तः केवलज्ञानं तु सादिकमनन्तमिति स्थूरे विशेषे विरुद्धधर्मयुक्तलक्षणे छायाऽऽतपवदत्यन्तभेदे सति कथं जीवः केवलं केवलज्ञानरूपं भवेत् ? तस्माद् विरुद्धधर्माध्यासतोऽन्यो जीवो ज्ञानादिपर्यायेभ्यो जीवो भिन्नोऽन्ये च तस्य ज्ञानादिपर्याया जीवाज्ज्ञानादिपर्याया भिन्नाः । औपशमिकादिलक्षणविशेषतथीपशमिकक्षायिकादिलक्षणभेदतोऽपि ज्ञानादिपर्यायेभ्यो जीवो भिन्न इति केचिद् व्याख्यातारइच्छन्ति ।
इदमत्र निदिध्यास्यम्-अस्मिन् ग्रन्थे विभिन्नप्रकारेण द्रव्यपर्यायौ भिन्नाभिन्नौ दर्शयित्वा कृता ग्रन्थकारेण स्याद्वादस्य सिद्धिः । अधुना केचिदाचार्याः मन्यन्ते, “आत्मा न केवलरूपम्, द्रव्यात् तत्पर्याया भिन्नाः, गुणगुणिनोष्टा भिन्नत्वं नाभिन्नत्वम्”, जीवकेवलयोः स्वरूपलक्षणाभ्यां स्थूरभेदस्य विद्यमानत्वात् । अत्र स्वरूपभेदः जीवोऽनाद्यनन्तः केवलं च साद्यनन्तमिति परस्परविरुद्धधर्मयुक्तत्वात्, जीवो द्रव्यस्वरूपः केवलं च पर्यायस्वरूपमित्येको द्रव्यस्वरूपोऽ परष्टा पर्यायस्वरूपः । तथा लक्षणभेदः - ज्ञानदर्शनयोः क्षायिकः क्षायोपशमिको भावो लक्षणं जीवस्य तु पारिणामिकादिर्भावो लक्षणमित्यादि तयोर्मध्ये बृहद्भेदस्य विद्यमानत्वात् तयोरेकत्वं न घटत इति ।। ३७-३८ ।।
पूर्वोक्तैकान्तभेदवादनिरासाय गाथात्रिकमाह -
अह पुण पुव्वपयुत्त अत्थो एगंतपक्खपडिसेहे ।
तह वि उदाहरणमिणं ति हेउपडिजोअणं वोच्छं ।। ३९ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org