SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ संमतितर्कप्रकरणे, काण्ड-२, गाथा-३४-३६ केवलस्योत्पादत्वध्रुवत्वयोर्घटमानतां दर्शयन्नाह - सिद्धत्तणेण य पुणो उप्पण्णो एस अत्थपज्जाओ । केवलभावं तु पडुञ्च केवलं दाइयं सुत्ते ।।३६।। सिद्धत्वेन च कृत्स्नकर्मक्षयस्वरूपेण पुनः पूर्ववदुत्पन्न एष केवलज्ञानाख्योऽर्थपर्यायो यत् तु पुनः केवलमपर्यवसितमिति सूत्रे दर्शितं तत् केवलभावं सत्तामात्रं प्रतीत्याश्रित्य । इदमत्रानुप्रेक्ष्यम् - आत्मनः केवलरूपत्वादात्मपर्यायनाशात् केवलज्ञानस्यापि नाशस्तथा आत्मपर्यायोत्पत्तेः केवलज्ञानस्याप्युत्पादः । कृत्स्नकर्मक्षयादात्मनः सिद्धपर्यायोत्पत्तिः, सिद्धत्वेन च केवलज्ञानस्योत्पत्तिर्भवति । तस्मादात्मनो भवपर्यायनाशात् पूर्वकेवल ज्ञानदर्शनपर्यायनाशस्तथा सिद्धत्वपर्यायोत्पादान्नवीनकेवलज्ञानदर्शनपर्यायोत्पत्तिः सिद्ध्यति । तेन यथा केवलं सादि तथा सान्तमपि । यत्तु सूत्रे केवलमनन्तं निरूपितं तत्तु तस्य सत्तामाश्रित्य, प्रतिक्षणं केवलज्ञानदर्शनयोः उत्पत्तिनाशशालित्वेऽपि सत्तारूपेण ध्रुवत्वात् । वस्तुतः पदार्थमात्रं यदि उत्पाद-व्यय-ध्रौव्यात्मकं भवेत् तद्येव सत् कथ्यते, अन्यथा न । ततः केवलस्योत्पादव्ययध्रोव्यात्मकत्वं यदि घटेत तद्येव तत्सदन्यथा न, तेन केवले उत्पादविनाशयोरभावो न वाच्यः, किन्तु पूर्वोक्तप्रकारेणोत्पादविनाशौ भावनीयौ ।।३६ ।। અવ. સાદિ-અપર્યવસિત શબ્દમાં થયેલી કોઈની ભ્રાંતિનો ઉલ્લેખ અને તેનું નિવારણगाथा : केवलणाणं साई अपज्जवसियं ति दाइयं सुत्ते । तेत्तियमित्तोत्तूणा केइ विसेसं ण इच्छंति ।।३४ ।। केवलज्ञानं साद्यपर्यवसितमिति दर्शितं सूत्रे । तावन्मात्रदृप्ताः केचिद् विशेषं न इच्छन्ति ।।३४ ।। अन्वयार्थ : केवलणाणं = वसन. साई अपज्जवसियं ति = 'सule-अनंत' में प्रमाणो सुत्ते = सूत्रमा दाइयं = वायुं छे. तेत्तियमित्तोत्तूणा = 2020 माथी गावित थये। केइ = 2415 आयार्या विसेसं = विशेषने ण इच्छंति = ६२७ नथी. छाया: Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy