________________
१४४
संमतितर्कप्रकरणे, काण्ड-२, गाथा-३४-३५
'केवलं साद्यपर्यवसितम्' इति सूत्रस्य मर्मानभिज्ञानां केषाञ्चिदुत्पन्नाया भ्रान्तेर्वर्णनम् -
केवलणाणं साई अपज्जवसियं ति दाइयं सुत्ते ।
तेत्तियमित्तोत्तूणा केइ विसेसं ण इच्छंति ।।३४।। केवलज्ञानं साद्यपर्यवसितमिति साद्यनन्तमिति सूत्रे दर्शितं प्ररूपितम्, तावन्मात्रेण दृप्ता गर्विताः केचन विशेषं पर्यायं पर्यवसितत्वस्वभावं विद्यमानमपि नेच्छन्ति न मन्यन्ते, ते च न सम्यग्वादिनः ।
इदमवधेयम् - ज्ञानावरणीय-दर्शनावरणीयकर्मणोः क्षये सत्युत्पन्ने केवलज्ञानदर्शने साद्यनन्ते । न पुनः कदापि तयोर्द्वयोः विनाशोत्पादौ आवारककर्मणोरुत्पादविनाशाभावात् । अतः केवलमनुत्पादव्ययात्मकमिति केचित् साद्यपर्यवसितशब्दस्यार्थं मन्यन्ते, ते च आचार्याः केवलज्ञानदर्शने ध्रुवत्वरूपेणैवेच्छन्ति न तूत्पादव्ययपर्यायेण । अयमभ्युपगमो न सम्यग्वादस्वरूपः, सूत्रमर्मबोधरहितत्वात् ।।३४ । । यतः -
जे संघयणाईया भवत्थकेवलिविसेसपज्जाया ।
ते सिज्झमाणसमये ण होति विगयं तओ होइ ।।३५।। ये संहननादयो वज्रऋषभनाराचसंहननपरिमाणादयो देहगता भवस्थकेवलिनस्त्रयोदशगुणस्थानकवर्तिनः केवलिनो विशेषपर्यायास्ते सिध्यमानसमये सिद्धिगमनसमये न भवन्ति अपगच्छन्ति ततः तत्तत्पर्यायाव्यतिरिक्तस्य केवलज्ञानस्याप्यात्मद्रव्यद्वारेण विगमात् केवलं विगतं भवति विगच्छतीत्यभिप्रायः ।।
इदमत्र विज्ञेयम् - भवस्थस्य जीवस्य देहात्मप्रदेशयोर्लोहाग्निन्यायेनान्योन्यानुविद्धत्वात् परस्पराव्यतिरिक्तत्वमुच्यते । तेन संहननादिदेहधर्मेभ्यः क्षायिकस्वरूपं केवलज्ञानमव्यतिरिक्तमुच्यते । सिद्धिगमनसमये देहगता विशेषधर्माः संहननादयो नश्यन्ति, तैः सह केवलरूप आत्माऽपि नश्यति, तयोर्मध्ये क्षीरनीरतुल्यसम्बन्धत्वात् । ततस्तद्रूपेण केवलोऽपि विगतं भवतीति भावः ।।३५ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org