________________
संमतितर्कप्रकरणे, काण्ड-२, गाथा-३२-३३
अधुना तत्त्वश्रद्धानरूपस्य सम्यग्दर्शनस्य सम्यग्ज्ञानरूपत्वमेव इति कथयन्नाह -
एवं जिणपण्णत्ते सद्दहमाणस्स भावओ भावे ।
पुरिसस्साभिणिबोहे दंसणसद्दो हवइ जुत्तो ।।३२।। एवमनन्तरोक्तविधिना जिनप्रज्ञप्तान भावान् पदार्थान् भावतः श्रद्दधानस्य पुरुषस्य जीवस्याभिनिबोधिके मतिज्ञाने दर्शनशब्दः सम्यग्दर्शनशब्दो युक्तो भवति ।
अयं हार्दः-जैनशास्त्रे 'दर्शन'शब्दः पारिभाषिकः । तस्य द्वावर्थों - एकः साकाराद्भिन्नः - निराकारोपयोगरूपोऽपरप्टा तत्त्वार्थश्रद्धानरूपः । निराकारोपयोगरूपस्य दर्शनस्य स्वरूपं व्याख्याय अधुना द्वितीयोऽर्थः स्पष्टीक्रियते । सामान्यतो मोक्षोपायेषु सम्यग्ज्ञानात् सम्यग्दर्शनं भिन्नं मन्यते, किन्तु तत्त्वतः तन्न । सम्यग्ज्ञानमेव सम्यग्दर्शनम्, विशिष्टावबोधरूपाया रूचेः सम्यग्दर्शनशब्दवाच्यत्वादिति भावः ।।३२ ।। ननु सम्यग्ज्ञाने सम्यग्दर्शननियमवद्दर्शनेऽपि सम्यग्ज्ञाननियमः कथं न स्यात्, इत्यत्राह -
सम्मण्णाणे णियमेण दंसणं दंसणे उ भयणिज्जं ।
सम्मण्णाणं च इमं ति अत्थओ होइ उववण्णं ।।३३।। सम्यग्ज्ञाने सम्यग्वस्त्ववबोधस्वरूपे नियमेन दर्शनं सम्यग्दर्शनम्, दर्शने एकान्तानेकान्तरूचिस्वरूपे तु सम्यग्ज्ञानं भजनीयं विकल्पनीयम् । अतः सम्यग्ज्ञानं चेदमिति विशिष्टरूचिस्वभावावबोधरूपं सम्यग्दर्शनं च अर्थतः तत्त्वत एकरूपमुपपन्नं भवति ।
इदमत्र रहस्यम् - सम्यग्ज्ञाने सम्यग्दर्शनं नियमेन भवति । किन्तु एकान्तरुचौ दर्शने सम्यग्ज्ञानस्यासत्वादनेकान्तरुचौ च दर्शने सम्यग्ज्ञानस्य सत्त्वाद् दर्शने ज्ञानं भजनीयम् । ततो जिनोदिततत्त्वे यथार्थश्रद्धारूपस्य सम्यग्दर्शनस्यानेकान्तरुचिरूपत्वात, तद् सम्यग्ज्ञानरूपमेव न तु तद्भिन्नम् । अतो द्वेऽपि सम्यग्ज्ञानदर्शने परमार्थतः सम्यग्ज्ञानरूपमेकमेवेति भावः ।
न्यायाचार्यश्रीयशोविजयोपाध्यायैर्ज्ञानबिन्दौ अस्य ग्रन्थस्य द्वितीयकाण्डस्य गा. ३ तः गाथा ३३ यावत् त्रिंशद्गाथाः स्वोपज्ञटीकापूर्वकं निरुपिताः । तदन्ते च कथितम् - त्रयो वादाः सन्ति, एकः क्रमवादः तत्पुरस्कर्तारष्टा श्रीमज्जिनभद्रगणिक्षमाश्रमणाः, ते पूज्याः
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org