________________
१२८
संमतितर्कप्रकरणे, काण्ड-२, गाथा-२३-२४
यदि मत्यवबोधे अवग्रहमानं दर्शनं विशेषितं च ज्ञानं मतिज्ञानमिति मन्यसे, एवं सति मतिज्ञानमेव दर्शनं निष्पन्नं प्राप्तं भवति । न चैतद् युक्तम्, सूत्रविरोधात् ।
एवं सत्यवग्रह एव दर्शनमित्यभ्युपगमेन शेषेन्द्रियदर्शने चक्षुर्भिन्नेन्द्रियदर्शने नियमेन निष्टायेन मतिज्ञानमेव तद्भवति, न च तद् युक्तम्, पूर्वोक्तदोषप्रसङ्गात् । अथ तत्र चक्षुर्भिन्नश्रोत्रादिष्विन्द्रियेषु ज्ञानमात्रं दर्शनमपि सत् तज्ज्ञानमेव, मात्रशब्दस्य दर्शनव्यवच्छेदकत्वाद् गृह्यते तथैव तेनैव प्रकारेण चक्षुष्यपि चक्षुरिन्द्रियेऽपि गृह्यताम्, 'चक्षुर्ज्ञानम्' न तु 'चक्षुर्दर्शनम्' इति ।
इदमूह्यम् - अवग्रहरूपा मतिरेव दर्शनमपायात्मिका च ज्ञानमित्येकदेशीयमते स्वीकृते सति ज्ञानमेवं दर्शनं प्राप्तम्, न चैतद् युक्तम्, तत्वार्थसूत्रे द्वितीयेऽध्याये ज्ञानोपयोगस्याष्टभेदानां दर्शनोपयोगस्य च चतुर्भेदानां पृथक्कथितत्वान्मतिज्ञानस्याष्टाविंशतिभेदोक्तिविरोधाच्च । अत एव शेषेन्द्रियदर्शनेऽप्यवग्रह एव दर्शनं विशेषितं च ज्ञानमिति न युक्तम् । किञ्च यथा आगमे 'श्रोत्रज्ञानं घ्राणज्ञानम्' इत्यादिव्यपदेश उपलभ्यते तथा श्रोत्रदर्शनम् घ्राणदर्शनम्' इत्यादिव्यपदेश नोपलभ्यते, ततष्टाक्षुर्भिन्नेषु श्रोत्रादीन्द्रियेषु दर्शनमपि सज्ज्ञानमेव यदि स्वीक्रियते तर्हि चक्षुष्यपि तथैव ‘चक्षुर्ज्ञानमेव गृह्यताम्, न तु ‘चक्षुर्दर्शनम्' । अथ चक्षुरिन्द्रिये दर्शनं गृह्यते तर्हि श्रोत्रादीन्द्रियेष्वपि कथं न ? युक्तेस्तुल्यत्वात् ।।२३-२४ ।।
छाया:
અવ. એકદેશીમતે આપેલ દષ્ટાંતની સમાલોચનાगाथा : जइ ओग्गहमेत्तं दंसणं ति मण्णसि विसेसिअं णाणं ।
मइणाणमेव दंसणमेवं सइ होइ निप्फण्णं ।।२३।। यदि अवग्रहमानं दर्शनम् इति मन्यसे विशेषितं ज्ञानम् ।
मतिज्ञानमेव दर्शनमेवं सति भवति निष्पन्नम् ।।२३।। अन्वयार्थ : जइ = ओ ओग्गहमेत्तं = AqU3मात्र दंसणं = ६शन अने विसेसि
= विशेष णाणं = Lन ति = मे प्रमाणो मण्णसि = तुं माने छ, एवं सइ = 20 प्रमोडीत छते मइणाणमेव = भतिश ४ दंसणं = शन निप्फण्णं = प्राप्त होइ = थाय छे.
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org