________________
संमतितर्कप्रकरणे, काण्ड-२, गाथा-२१-२२
१२५
इदमत्र वेदनीयम् - मतिज्ञानस्य मूलभूताप्टात्वारो भेदाः, तद्यथा - अवग्रह-ईहा-ऽपायधारणाः । तत्र 'इदं तद्' इति व्यपदेष्टुमशक्यबोधोऽवग्रह उच्यते, स एव च दर्शनं तथा निष्टायात्मकवर्णनमपायस्वरूपम् ‘अयं घटः' इत्यादि ज्ञानमुच्यते । यथा मतिज्ञाने तथैव केवलबोधे सामान्यांशं दर्शनं विशेषाशं च ज्ञानमुच्यते ।।२१।। एकदेश्येव क्रमिकभेदपक्षं दूषयति -
दसणपुव्वं णाणं णाणणिमित्तं तु दंसणं णत्थि ।
तेण सुविणिच्छियामो दंसणणाणाण अण्णत्तं ।।२२।। दर्शनपूर्वं ज्ञानमिति छद्मस्थोपयोगदशायां प्रसिद्धम् । ज्ञाननिमित्तं तु दर्शनं नास्ति कुत्रापि, तथाऽप्रसिद्धेः । तेन तस्मात् सुविनिष्टिानुमो दर्शनज्ञानयोरन्यत्वं भिन्नत्वम् । ज्ञानबिन्दौ तु तेन सुविनिष्टिानुमो दर्शनज्ञाने नाऽन्यत्वम् न क्रमप्राप्तभेदं केवलिनि भजत इति शेषः ।
इदमत्र वेदितव्यम् - सामान्य ज्ञात्वा पष्टााद् विशेषं ज्ञायते नाऽन्यथा, तेन दर्शनपूर्वं ज्ञानं भवतीति छद्मस्थावस्थायां प्रसिद्धम् । अयं च क्रमः क्षयोपशमनिबन्धनः, केवलिनि च क्षयोपशमभावाभावात् क्रमिकभावो नैव युज्यते । अन्यथा सर्वासां लब्धीनां साकारोपयोगप्राप्यत्वेन पूर्व ज्ञानस्य पष्टााद् दर्शनस्योत्पत्तिर्वाच्या, तथा च ज्ञानहेतुकं दर्शनमिति केवलिन्यापतति, तञ्चात्यन्तमनुचितम् । तस्मात् केवलिनो दर्शनज्ञाने न भिन्ने, न च तयोः क्रमप्राप्तभेदं संभवति ।।२२ ।।
१. मेशी'मतनुं वनिगाथा : सणमोग्गहमेत्तं 'घडो' त्ति णिव्वण्णणा हवइ णाणं ।
जह एत्थ केवलाण वि विसेसणं एत्तियं चेव ।।२१।। दर्शनमवग्रहमानं 'घटः' इति निर्वर्णना भवति ज्ञानम् ।
यथा अत्र केवलयोरपि विशेषणम् एतावद् एव ।।२१।। अन्वयार्थ : ओग्गहमेत्तं = अ मात्र दसणं = शन, 'घडो'त्ति = 'घ2'
में प्रमाणो णिव्वण्णणा = मिश्ययपूर्वनु पर्शन णाणं = धन
छाया:
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org