________________
११०
संमतितर्कप्रकरणे, काण्ड-२, गाथा-१०-१४
इदमत्र बोध्यम् - युगपदुपयोगद्वयमते, केवली कानिचिद्वस्तुनि जानाति कानिचिच्च पश्यति, न तु किञ्चिदपि वस्तु उभयरूपेण गृह्णाति । तस्मात् केवल्येकमपि वस्तु ज्ञातं दृष्टं भाषते तन्न घटते बोधस्यैकांशावलम्बित्वात् । तथा क्रमिकोपयोगद्वयमते, केवली ज्ञानकाले न पश्यति दर्शनकाले च न जानाति भिन्नसमयत्वाद्, ततो न घटते ‘ज्ञातदृष्टं भाषते' इति शास्त्र वचनविशेषः ।।१२।। उभयवादे तथाप्रकारकं सर्वज्ञत्वं न संभवतीत्याह -
अण्णायं पासंतो अद्दिटुं च अरहा वियाणंतो ।
किं जाणइ किं पासइ कह सव्वण्णु त्ति वा होइ ।।१३।। अज्ञातं पश्यन्नदृष्टं च जानानोऽर्हन् केवली किं जानाति ? किं वा पश्यति ? न किञ्चिदपीति भावः । कथं सर्वज्ञ इति वा भवेत् ? कथं केवलिनः सर्वज्ञता संभवेदित्यर्थः ।
अस्या गाथायास्तात्पर्यमुक्तमेव ।।१३ ।। ज्ञानदर्शनयोर्विषयविधयापि समानसङ्ख्याशालित्वादेकत्वमित्याह -
केवलणाणमणंतं जहेव तह दंसणं पि पण्णत्तं ।
सागारग्गहणा हि य णियमपरित्तं अणागारं ।।१४।। यथैव आगमे केवलज्ञानमनन्तं प्ररूपितं तथैव केवलदर्शनमपि अनन्तं प्रज्ञप्तं प्ररूपितम् । उभयवादे दर्शनस्य ज्ञानाद् भेदे स्वीकृते सति साकारग्रहणाद् ज्ञानादनाकारं दर्शनं नियमेन निष्टायेन परीतमल्पविषयकं भवति ।
इदमत्र ग्राह्यम् - क्रमिकोपयोद्वयवादे युगपदुपयोगद्वयवादे च केवलज्ञानात् केवलदर्शनं भिन्नमिति स्वीकृतम्, तत आगमविरोधः प्रसज्येत्, यत आगमे केवलज्ञानं केवलदर्शनं चानन्तमिति प्ररुपितम् । भिन्ने सत्यनन्तविशेषवर्तिकेवलज्ञानविषयात् सामान्यमात्रावलम्बिकेवलदर्शनविषयस्याल्पीभूतत्वाद् दर्शनमनन्तं कथं घटेत् ? तस्मादुभयावपि केवलज्ञानदर्शनोपयोगावभिन्नावेव न तु भिन्नौ ।।१४ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org