________________
संमतितर्कप्रकरणे, काण्ड-२, गाथा-१०-१४
१०९
अथवा सर्वं सामान्यरूपं विशेषरूपं वा वस्तु न जानाति न पश्यति च, एकदेशोपयोगवृत्तित्वात् ।
अयं तात्पर्यः - यदि सर्वज्ञ एकसमयेन सर्वं द्रव्यजातं विशेषरूपं जानन् तदैव विशेषात्मकं सामान्यं पश्यति सामान्यरूपं वा पश्यन् तदैव सामान्यात्मकं विशेषं जानाति तदा तस्य सर्वज्ञत्वं सर्वदर्शित्वं च सर्वकालं युज्यते, प्रतिक्षणं ज्ञानदर्शनोभयात्मकैकोपयोगस्य विद्यमानत्वात् । अथवा एकसमये सामान्यं वस्तु पश्यति विशेषं च न जानाति विशेषं वा जानाति सामान्यं च न पश्यति तर्हि उपयोगस्य एकदेशवृत्तित्वात् केवली सर्वं न जानाति, मतिज्ञानवानिव । तस्मात् क्रमवादे सहवादे चोपयोगद्वयवादिमते सर्वज्ञता सर्वदर्शिता च न घटते इत्याशयः सूरेः ।।१०।। दर्शनमव्यक्तत्वादपि केवलिनि पृथग् न संभवतीत्याह -
परिसुद्धं सायारं अवियत्तं दंसणं अणायारं ।
ण य खीणावरणिज्जे जुज्जइ सुवियत्तमवियत्तं ।।११।। साकारं ज्ञानोपयोगः परिशुद्धं व्यक्तस्वभावम्, अनाकारोपयोगरूपं दर्शनं पुनः अव्यक्तम् अव्यक्तस्वभावम्, क्षीणावरणीये च केवलिनि न युज्यते सुव्यक्तमव्यक्तम् न घटेते व्यक्तस्वभावाऽव्यक्तस्वभावौ । ततः सामान्यविशेषज्ञेयसंस्पर्शी उभयैकस्वभाव एवायं केवलिप्रत्ययः ।
अयं तात्पर्यार्थः-ज्ञानं व्यक्तस्वरूपं दर्शनं चाव्यक्तस्वरूपम् । केवलिनि व्यक्ताव्यक्तते न संभवतस्तस्मात् केवलिनो बोधः सामान्यविशेषज्ञेयसंस्पर्म्युभयैकस्वभावः । न च ग्राह्यद्वित्वाद् ग्राहकद्वित्वमिति वाच्यम्, केवलज्ञानस्य ग्राह्यानन्त्येनानन्ततापत्तेः ।।११।। क्रमवादे सहवादे च उपयोगद्वयस्य मान्यतायां भगवतो यदापद्यते तदाह -
अद्दिटुं अण्णायं च केवली एव भासइ सया वि ।
एगसमयम्मि हंदी वयणवियप्पो न संभवइ ।।१२।। सहवादे उपयोगद्वयाभिमते केवली अर्हन् सदाऽपि सर्वकालमेव अदृष्टमेव ज्ञातमज्ञातमेव च दृष्टं भाषत इत्येतदापद्यते । क्रमवादे तु एकसमये हन्दि वचनविकल्पो ज्ञातं दृष्टं च भाषते इत्येवंप्रकारको वचनविशेषो न संभवति, बोधानुरूप्येण वाचः प्रवर्त्तनात् ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org