SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ संमतितर्कप्रकरणे, काण्ड - २, गाथा- ९ अथ ग्रन्थकारो युगपदुपयोगद्वयवादिमुखेन क्रमोपयोगवादिनं निरस्य युगपदुपयोगद्वयवादिमतं निरसितुं स्वपक्षं दर्शयन्नाह - दंसणणाणावरणक्खए समाणम्मि कस्स पुव्वअरं । होज्ज 'समं उप्पाओ हंदि दुए णत्थि उवओगा ।।९।। दर्शनज्ञानावरणक्षये समाने दर्शनावरणीयकर्मणो ज्ञानावरणीयकर्मणष्टा क्षये तुल्ये प्राप्ते सति कस्य पूर्वतरं प्रथमतरमुत्पादो भवेत् ? अस्मिन् प्र ने समुपस्थिते क्रमवादी न किञ्चिद् वक्तुं समर्थः । तदा युगपदुपयोगवादिन आहुः - समम् एककालम्, द्वयोरपि उत्पादो युगपदेव, उभयकारणसद्भावात्। ग्रन्थकारस्तु आह- हन्दि द्वावुपयोगौ न स्तः एकदा इति शेषः, आगमविरोधात् । अयं भावार्थः कोपयोगवादी ग्रन्थकारः क्रमोपयोगवादिनं पृच्छति - द्वयोरपि आवारककर्मणोस्तुल्ये क्षये सति प्रथमतरं कस्योत्पत्तिः ? अन्यतरस्योत्पादे तदितरस्याप्युत्पादः कथं न ? अत्र क्रमवादी निरूत्तरो भवति । तदा युगपदुपयोगद्वयवादी आह - उभयस्य ज्ञानदर्शनोपयोगस्य युगपत् कारणे सद्भावे द्वावप्युपयोगौ संभवतः । अत्र एकोपयोगवादी ग्रन्थकारः प्राह- सहवादे उत्पत्तिक्रममाश्रित्य न दोषः । तथापि केवलोपयोगस्य सामान्यविशेषोभयपरिच्छेदात्मकत्वात् केवलिनि एक एवोपयोगः, द्वावप्युपयोगौ नैकदा संभवत आगमविरोधादिति ।।९।। - छाया : અવ, ક્રમિક બે ઉપયોગને માનનાર તથા એક સમયે બે ઉપયોગને માનનારા વાદીની માન્યતામાં દોષ બતાવી સ્વપક્ષને જણાવતાં ગ્રંથકારશ્રી કહે છે કે गाथा : दंसणणाणावरणक्खए समाणम्मि कस्स पुव्वअरं । होज्ज समं उप्पाओ हंदि दुए णत्थि उवओगा ।। ९ ।। दर्शनज्ञानावरणक्षये समाने कस्य पूर्वतरम् । भवेत् सममुत्पादो हन्दि द्वौ न स्त उपयोगौ । । ९।। अन्वयार्थ : दंसणणाणावरणक्खए समाणम्मि Jain Education International 2010_02 १०७ = દર્શન અને જ્ઞાનના આવરણોનો ક્ષય = समान होते छते पुव्वअरं = पडेसां कस्स = डोनो For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy