________________
संमतितर्कप्रकरणे, काण्ड-२, गाथा-५-८
१०३
न केवलं क्रमवादिनोऽनुमानविरोधः, किन्त्वागमविरोधोऽपीत्याह -
सुत्तम्मि चेव साई अपज्जवसियं ति केवलं वुत्तं ।
सुत्तासायणभीरूहि तं च दट्टब्वयं होइ ।।७।। “केवलं साद्यपर्यवसितं” केवलज्ञानदर्शने साद्यनन्ते इति सूत्रे एव आगमे एवोक्तं प्रतिपादितम् । सूत्राशातनाभीरूभिः सूत्रस्य आशातनेभ्यो बिभ्यद्भिः क्रमोपयोगवादिभिस्तञ्च तदपि सूत्रं द्रष्टव्यं पर्यालोचनीयं भवति, अत्र 'च'शब्दोऽप्यर्थको ज्ञेयः ।।
इदमत्र समूह्यम् - केवलज्ञानदर्शने आगमे साद्यनन्तरूपे प्ररूपिते । द्वावपि उपयोगी यदि क्रमिकौ तर्हि केवलज्ञानोपयोगकाले केवलदर्शनस्य तथा केवलदर्शनोपयोगकाले केवल ज्ञानस्याभावात् सादिसान्तरूपेणैव तौ घटेते । तस्मादागमाविरोधद्वारेण केवलज्ञानदर्शनयोयोगपद्यमेव घटते न तु क्रमवर्त्तित्वम् ।।७।। तदेव स्पष्टयन्नाह -
संतम्मि केवले दसणम्मि णाणस्स संभवो णत्थि ।
केवलणाणम्मि य दंसणस्स तम्हा सणिहणाई ।।८।। केवलज्ञानदर्शयोः क्रमोत्पादे स्वीकृते केवलदर्शने सति केवलदर्शनोपयोगकाले नास्ति ज्ञानस्य संभवः केवलज्ञानस्य उपयोगो न संभवति, केवलज्ञाने च केवलज्ञानोपयोगकाले च दर्शनस्य केवलदर्शनस्योपयोगोऽपि न संभवति । तस्मात सनिधने केवलज्ञानदर्शने सान्ते एव घटेते, तन्न युक्तम् । ततः केवलज्ञानदर्शनयोर्योगपद्यमेव स्वीकरणीयम् ।
ज्ञानबिन्दौ ‘तम्हा सनिहणाई' इति स्थाने 'तम्हा अनिहणाई' इति पाठः । तस्य चायमर्थः - तस्मात् केवलिनो द्वावपि उपयोगौ स्वरूपतोऽनिधनौ अनन्तावेव । अस्या गाथाया भावार्थस्तूक्तप्रायः ।।८।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org