________________
१०२
आगमेन केवलज्ञानदर्शनयोः यौगपद्यमभिधायानुमानेनापि तदभिधातुं सहवाद्याह केवलणाणावरणक्खयजायं केवलं जहा णाणं ।
तह दंसणं पि जुज्जइ णियआवरणक्खयस्संते ।। ५ ।।
संमतितर्कप्रकरणे, काण्ड - २, गाथा-५-८
केवलज्ञानावरणक्षयजातं केवलज्ञानावरणीयकर्मणः क्षये सत्युत्पन्नं केवलं केवलावबोधं यथा ज्ञानं विशेषावबोधस्वभावं तथा तदैव निजावरणक्षयस्यान्ते केवलदर्शनावरणीयकर्मणः क्षये सति दर्शनमपि सामान्यावबोधस्वभावमपि युज्यते उत्पद्यताम् ।
इदमत्र कथनीयम् - द्वादशगुणस्थानकान्ते यथा केवलज्ञानावरणीयकर्म क्षयति तथा केवलदर्शनावरणीयकर्मापि । एकस्य क्षये उत्पन्नं केवलज्ञानं यथा स्वीक्रियते तथाऽपरस्य क्षये तदैवोत्पन्नं केवलदर्शनं किं नाङ्गीक्रियते ? अविकले कारणे विद्यमाने सति कार्यानुत्पत्तिर्न युक्ता । तस्मात् केवलज्ञानदर्शनयोर्न क्रमवर्तित्वम्, किन्तु यौगपद्यमेव ।।५ ।।
पुनरपि सहवाद्यनुमानेन केवलज्ञानदर्शनयोर्योगपद्यं दर्शयन्नाह -
भण्णइ खीणावरणे जह मइणाणं जिणे ण संभवइ । तह खीणावरणिज्जे विसेसओ दंसणं नत्थि ||६||
यथा क्षीणावरणे क्षीणं- नष्टम् आवरणं घातिकर्मचतुष्टयरूपं यस्य सः तस्मिन् तथा जिने केवलिनि मतिज्ञानमाभिनिबोधिकज्ञानमुपलक्षणात् श्रुताऽवधि - मनः पर्यायज्ञानानि न संभवति इति भण्यते निष्टिशत्योच्यते तथा क्षीणावरणीये तस्मिन्नेव केवलिनि विशेषतो वि लेषतः केवलज्ञानोपयोगाद्भिन्नकाले दर्शनं केवलदर्शनं नास्ति न संभवतीत्यप्यभ्युपगन्तव्यम् ।
-
इदमत्र ध्येयम् - संपूर्णज्ञानावरणीयकर्मणि क्षये सति यथा केवलिनि केवलज्ञानाद्भिन्नानि मत्यादिज्ञानानि न संभवन्ति तथा तस्मिन्नेव केवलिनि दर्शनावरणीयकर्मणि क्षये सति केवलज्ञानाद्भिन्नकालभावि केवलदर्शनं कथं युज्यते ? यतः क्रमिकोपयोगो मत्यादिरूपो मत्यादीनां चाभावे केवलिनि क्रमिकोपयोगस्याप्यभावात् ।। ६ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org